SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ तृतीयपादः ] अवचूरिपरिष्कारसहितायाम् । ७१ नाम्नगरीनवतिवर्जस्य तवर्गस्य सस्य च टवर्गषो न स्याताम् । षट्तयं, पण्नयाः, षट्सु । अनाम्नगरीनवतेरिति किम् ? षण्णाम् , षण्णगरी, षण्णवतिः ॥ षि तवर्गस्य ॥६४॥ पदान्तस्थस्य तवर्गस्य षे परे टवर्गो न स्यात् । तीर्थकृषोडशः शान्तिः ॥ लि लौ ॥६५॥ पदावर्तमाने तिव, क्रथादेः भा अनाति । ' तवर्गस्ये 'ति सूत्रेण यश्चवर्गः प्राप्तः सोऽनेन सूत्रेण . निषिध्यते । पृच्छतीति प्रश्नः ॥ पदान्तात् , टवर्गत , नाम् च नगरी च नवतिश्च, न विद्यते नाम्नगरीनवतिर्यस्मिन्, तस्य ॥ तवर्गस्य, सस्य, टवर्गः, षः, नेत्येतेषामनुवृत्तिः । नामिति, आमादेशभूतो नाम् गृह्यते, 'प्रत्ययाप्र. त्यययो । प्रत्ययस्यैव ग्रहणमि 'ति न्यायात् । षट् अवयवा यस्य तत् , षट्तयम् , 'अवयवात्तयट्', षष्तयम , 'धुटस्तृतीयः' षड्, 'अघोषे' इति उस्य टः, अत्र 'तवर्गस्येति तकारस्य टत्वे प्राप्तेऽनेन निषेधः । षट् च ते नयाश्च पण्नयाः, षष् नयाः, ' धुटस्तृतीये ति षस्य डः, 'तृतीयस्य पञ्चमे', षण नया:, 'तवर्गस्येति सूत्रेण नकारस्य णत्वं प्राप्तमनेन निषिध्यते । एवं षट्स्वपि भाव्यम् । 'सङ्ख्यानां र्णा 'मिति आमो नाम्, पषु नाम् , 'धुटस्तृतीय' 'तृतीयस्य पञ्चमे' षण् नाम् , अत्र नामो वर्जनात् ' तवर्गस्ये 'ति णत्वम् , एवमप्रेऽपि । षण्णां नगरी षण्णगरी । षड्भिरधिका. नवतिः षण्णवतिः ॥ षि, तवर्गस्य ॥ पदान्तात् टवर्गो नेत्यनुवर्तन्ते । तीर्थं करोतीति तीर्थकृत् , पभिरधिका दश, इति षोडश, षोडशानां पूरणः षोडशः । अत्र तकारस्य टकारे प्राप्तेऽनेन निषेधः ॥ लि, लच लच लौ । ‘स्यादावसङ्घयेय' इत्येकस्य लस्य लोपः । लकारद्वयोक्तयानुनासिकाननुनासिकौ लौ ॥ पदान्तात् , तवर्गस्येति चानुवर्तते । तत् लूनम् , अनेन सूत्रेण तकारस्य निरनुनासिको लः । भवान् , लुनाति, अत्र च नकारस्य सानुनासिको लकारः । यद्यपि ' आसन्न' इति सूत्रेण
SR No.023395
Book TitleSiddha Hem Llaghu Vrutti Avchuri Parishkar
Original Sutra AuthorN/A
AuthorJitendravijay
PublisherRanjanvijay Jain Pustakalay
Publication Year2007
Total Pages470
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy