________________
विकृतः प्रायशः प्रयुज्यमानोऽपभ्रंश इति तत्र प्रस्तावनायां प्रदर्शितम् ॥
सति प्रभूतेऽपि वक्तव्ये विस्तरभिया दिङ्मात्रं खल्वप्राभिधीयते । आशास्महे भविष्यत्येतद्विवेचनं विदुषां तोषायेति । एतस्य ग्रन्थस्य संस्करणकर्मण्यस्माभिः प्रचुरमवधानमवाधारि । तथापि मुद्रणाव्यवस्थाया अस्मन्प्रामादाद्वा याः कश्चित्त्रुटयो. ऽवशिष्यमाणा विधरंस्ताः संशोधनीयाः सूचनीया वाऽस्मभ्यं परोपकारप्रवणैः प्रेक्षावद्भिर्वाचकैरिति सप्रश्रयं विज्ञाप्यते । अस्व प्रन्थस्य संपादनकर्मणि प्रचुरं साहाय्यमनुष्ठितवद्भिः दि० ब. केशवलाल हर्षदराय ध्रुवेत्येतैः पण्डितधुरीणैर्महाशयैर्महाराजश्रीपुण्यविजयेतिमुनिवरैश्च वयमत्यर्थमुपकृताः॥
मोदीत्युपाहो मधुसूदनः।