________________
प्राकृतपिंगलेऽप्युदाहरणपद्यान्यपभ्रष्टभाषायामेवोपनिबद्धानीति
भाषालक्षणात्तट्टीकाकारस्य लक्ष्मीनाथभट्टस्य वचनाच्च प्रसिद्धमेव । २२ एवं च विक्रमाकयपञ्चदशशताब्द्यां विरचिते संदेशareared sufसद्धाऽपभ्रष्टकाव्ये यथा,
अवहट्टय- सक्कय- पाइयं च पेसाइयंमि भासाए । लक्खण छंदाहरणे सुकइत्तं भूसियं जेहिं ॥
एवं च लोकैः प्रयुज्यमानाभिर्देश्यभाषाभिः संपृक्तस्ताभिश्च विकृतोऽप्यपभ्रंश पारम्पर्गमनुकुर्वाणश्चारणविरचितेषु काव्येष्वद्या• प्यखण्डतया प्रवर्तमानोऽपभ्रष्टसंज्ञः प्रवाहो दरीदृश्यते । द्वितीयश्व प्रवाह उक्तिप्रधानो लोकभाषास्ववतीर्णः स्वातन्त्र्येण विकृतिमापद्यमानो विवर्धमानश्व पश्चिमहिंदी - राजस्थानी गुर्जरी-प्रभृतिवर्वाचीनदेश्यभाषास्वन्तर्गतो ढग्गोचरीभवति । यत्वपभ्रंश-गुर्जर्यो र्व्याकरणादिसंबंधविवेचनं टेसीटरी-ग्रीअरसन- दिवेटिआ - ध्रुव-टर्नरादिभिर्विद्वद्भिर्विविधेषु प्रबन्धेष्वकारि तत्प्रशावद्भिर्वाचकैस्तत्र तत्रावलोकनोयम् ॥
यत्कैश्चित्पण्डितप्रवरैरपभ्रंशानेकत्वं प्रत्यपादि तदत्र प्रत्याख्येयम् । अस्मिन् पक्षे प्राचीनपरंपरायां रुद्रट - मार्कण्डेय - रामतर्कवागीशादय आलंकारिक वैयाकरणा अर्वाचीनपरंपरायां च पीशल-ग्रीअरसनादयो भाषापण्डिताः । अपभ्रंशकत्वयाथार्थ्यमस्माभिरुपरि साधितम् । प्राकृतानन्तरवर्त्यर्वाचीन देश्यभाषापुरोभवमन्तरालवर्ति तत्कालीनदेश्यभाषा स्वरूपमपभ्रंश इति पूर्वपक्षिणां पण्डितानां पक्षः । तस्याऽपि वैतथ्यमस्माभिरदर्शि । यत्तु बलपण्हो ' इत्यस्मिचतुर्थोद्धरणे टाक्कोमागध्योः कडवकानि दृश्यन्ते तत्केवलं विदग्धताविश्चिकीर्षया । द्वादशत्रयोदशोद्धरणयोर्भाषा देश्योक्ति
I
१२. Pischel. G. P. Ein § 28. अत्र तु पीशलमहाशयेन स्रविस्तरमपभ्रष्टशब्दप्रयोगस्थानानि समवतारितानि । तथा हि, प्रा. पिं. पत्र ३. ( लक्ष्मीधर टीकायाम् ) ।
१३. संदेशकरास ( अप्रसिद्ध ) गाथा. ६.