________________
कृतसर्वस्त्रे 'हरिश्चन्द्रस्त्विमां भाषामपभ्रंश इतीच्छती "ति मार्कण्डेयनिराकृताऽभिप्रायः स्वीकृतः । एवं चैकस्यापभ्रंशस्य देश्यविशेषैः परिच्छिन्नं शाखाभिन्नत्वमस्मन्मतं न बाधते ॥
साहित्यभाषापदमारूढेकाऽपभ्रंशभाषा दक्षिणापथवर्तिमान्यखे. टनिवासिना महाकविपुष्पदन्तेन, कामरूपवसतिना महासिद्धसरोरुहेण, वंगदेशवास्तव्येन कृष्णपादेन, विविधदेशनिवासिभिश्च. वमनेकैः कविभिः संस्कृतप्राकृतवत्प्रयुज्यमानैकस्मिन् समये समस्ते भारतवर्षे लब्धप्रचाराऽऽसीदित्यत्र न भवति संशयलवस्याप्यवकाशः। एतस्यापभ्रंशस्य यथाकालं द्विविधः प्रवाहः समवतीर्णो दृश्यते । एकस्तु परंपरया साहित्ये प्रयुज्यमानोऽपभ्रष्टसंज्ञां प्राप्नुवन् पश्चाच्च डिंगलाभिधया चारणैरद्यापि राजसभासु प्रयुज्यमानायां भाषायामखण्डतयाऽवतीर्णोऽवगम्यते । मैथिलकविविद्यापतिना विक्रमार्कीयपंचदशशताब्दीवर्तिना 'कीर्तिलते' ति ख्याते काव्येsपभ्रष्टभाषैव प्रायुञ्जि । यथा तेन भण्यते,
सक्कअवाणी बहुअ न भावइ पाउअरस को मम्म न पावई ।
देसिलवअना सवजनमिट्ठा - ते तैसन जपउं अवहट्ठा ॥२॥
29 .
१६. अ. पा. टिप्पणी. पत्र. ३६.
१७. कारंजा-जैन-प्रन्थमालायां 'जसहरचरिउ' (सं. पी. एल. वैय) 'नायकुमारचरिउ' (सं. हीरालाल जैन) इत्येतो प्रन्यो मुद्रितौ । 'महा. पुराणं ' तु वैद्यमहाशयेन संपाद्यते तस्यामेव प्रन्थमालायां )
१८. अ. पा. उद्धरण, १३. टिप्पणी, १९. अ. पा. उद्धरण. १३. टिप्पणी.
२०. सुनीतिकुमार चेटरजी: 0. D. B. L. Part 1 Intro. P. 113-115.
२१. कीतिलता ( सं. बाबुराम सक्सेना ) पत्र. ७. (मूल.)