________________
इति । सः चेम उल्लेखा अपभ्रंशस्थानविषयेऽस्मदीयाभिप्रायमेव द्रढयन्ति । एकादश्यां विक्रमशताब्द्यां विद्यमानो भोजराजः सरस्वतीकण्ठाभरणे,
पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः
अपभ्रंशेन तुष्यन्ति स्वेन नान्येन गुर्जराः ॥3 इत्यभिप्रायमाविष्कुर्वाणो राजशेखराभिप्रायमेव समर्थयति। एवं च सापभ्रंशप्रयोगाः प्रदेशा आर्यावर्तस्य पश्चिमाशावतिन इत्यप्रत्याख्येयोऽयं सिद्धान्तः ॥
अत्रापभ्रंशस्य विविधाः पारंपर्यसमाम्नाताः शाखा इति के. षांचिन्मतम् । तत्त्वत्र समुपस्थापितमपभ्रंशैकत्वपक्षं न व्यावर्तयति। साहित्ये प्रयुज्यमानस्यैकस्याप्यभ्रंशस्य प्रादेशिकविशेषत्वाल्लोकोक्तिगताः बहवः शाखा भवेयुरिति नास्मदीयसिद्धान्तबाधकमनुभवविरुद्धं वा । वि. सं. ११२५ वर्षे रुद्रटीयकाव्यालङ्कारटोकायां ममिसाधुरभिधत्ते। "पाणिन्यादिव्याकरणोदितशब्दलक्षणेन संस्करणात्संस्कृतमुच्यते । तथा प्राकृतभाषेव किंचिद्विशेषलक्षणान्मा. गधिका भण्यते । तथा प्राकृतमेव किंचिद्विशेषात् पैशाचि. कम् । शौरसेन्यपि प्राकृतभाषैव । तथा प्राकृतमेवापभ्रंशः। स चान्यैरुपनागराभीरनाम्यावभेदेन त्रिधोक्तस्तन्निरासार्थमुक्तं भूरिमेद इति । कुतो देशविशेषात् । तस्य च लक्षणं लोकादेव स. म्यगवसेय " मिति । एवं च रुद्रटमतसमर्थनपरो नमिसाधुरप. भ्रंशस्य त्रीन् भेदान्न स्वीकरोति । प्राच्यपरंपरासमाम्नायमनुमृत्य मार्कण्डेयेन प्राकृतसर्वस्वे नागरोपनागरवाचडसंज्ञा अपभ्रंशस्य त्रयो मेदा अभिहिताः । अस्माभिः प्रस्तुतग्रन्थस्य चतुर्थोद्धरणस्य प्रस्तावे टाक्क्यपभ्रंशस्य शाखैवेति प्रतिपिपादयिषद्भिः प्रा.
१३. भोजदेव-सरस्वतीकण्ठाभरण. २-१३. १४. रुद्रट-काव्यालङ्कार २-११. नमिसाधु-टीका.
१५. मार्कण्डेय-प्राकृतसर्वस्त्र पाद. १७-१८. देश्यभाषाणामपभ्रंशे समावेशनायोक्तेषु बहुष्वपभ्रंशप्रकारेष्वपि मुख्यतया वर्तमानानामपभ्रंशस्य त्रयाणां प्रकाराणां विवेचनं मार्कण्डेयेन विस्तरतो कृतमपरे तु केवलं निर्दिष्टाः ।