________________
दिवार्यावर्तस्य पश्चिमदिक्प्रदेशेषु प्रयुज्यमानाभ्यो गीर्भ्यः शुद्धस्वरूपा कविभिराहता लब्धप्रकर्षा खल्वेका भाषाऽऽपभ्रंशाभिध. यैव ज्ञायते । साऽपभ्रंशभाषा तत्कालीन देश्यभाषाभ्यो भिन्नाऽऽसीत् । एषोऽभिप्रायः समधिगत सकलापभ्रंशसाहित्यनिदर्शनाद्, दाक्षिण्य. चिह्नराजशेखरादीनां कथनाद्, अपभ्रंशस्य राजस्थान गुर्जरत्रादिप्रदेश प्रवर्तमानदेश्यभाषाणां च व्याकरणशब्दसमूहादिविषये पारम्पर्यगतसाम्यदर्शनात्प्रमाणपदवीमारोहति । वि. सं. ८३५ वर्षे दाक्षिण्यचिह्नोऽष्टादशदेश्यभाषाऽतिरिक्तामपभ्रंश भाषामुपदर्शयति । तस्याभिप्राये संस्कृतं ' दुर्जनहृदयमिव विषमं ' प्राकृतं च ' सज्जनवचनमिव सुखसंगतं किं त्वपभ्रंशस्तु ताभ्यामपि शोभनतरः 'प्रणयकुपितप्रियप्रणयिनीसमुल्लापसदृशो मनोहरः । एवं गुर्जरत्रातिलकभूतं भिन्नमालं परितो विहरन् दाक्षिण्यचिह्नो suit परं भावमाविष्करोतीति न चित्रम् । अपि च स कुवलयमालाकथायां गुर्जरपथिकमुखादपभ्रंशदोहक मुपवाचयतीति सुसंग तमेव । विक्रमायदशमशताब्द्या आदिमे विभागे प्रवर्तमानो राजशेखरस्तदुक्तमित्युल्लिख्य काव्यमीमांसायां दशमाध्याये अपभ्रंशं प्रयुञ्जानान्देशान्निर्दिशति यथा,
,
१०
सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादान काश्च । तस्मिन्नेव ग्रन्थेऽन्यत्र च,
सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठषम् । अपभ्रंशवदंशानि ते संस्कृतवचांस्यपि ॥ इति ।
११
अपरत्र च तस्मिन्नेव ग्रन्थे राजासनसमीपमपभ्रंशिनां क वीनां निवेशनस्थानं व्यवस्थापयिष्यन् राजशेखर उद्गिरति ' [ राजासनस्य च ] पश्चिमेनाप्रभ्रंशिनः कवय [ निविशेरन् ] ११२
८. अपभ्रंशपाठावली - टिप्पणी पत्र. ६६.
९. अ. पा. उद्धरण १४.
१० राजशेखर - काव्यमीमांसा । पत्र. १५. ( गायकवाड - प्राच्य ग्रंथमाला. १.)
११. राजशेखर - का. मी. पत्र ३४.
१२. राजशेखर - का. मी. पत्र. ५४-५५