________________
प्रथमपङ्क्तौ दण्डिना तत्कालीनदेश्यभाषाभ्यः समासादित. वाङ्मयविषयपरमोत्कर्षा काश्चिदाभोरादिगिरोऽपभ्रंशाभिधाप्रदानेन दृष्टिकक्षोकृताः । द्वितीयपङ्क्तौ तु पतञ्जलिविहितः संस्कृतापेक्षोऽपभ्रंशार्थः संनिहितः । 'आभोरादिगिरः ' इत्यनेन शब्दसमूहेनार्यावर्तस्य पश्चिमप्रदेशमधिवसतां जनानां गिर उद्दिश्यैवोक्तमिति पुराविदभिप्रायानुसारमस्मभ्यं प्रतिभाति । कैश्चिदालंकारिकैरपभ्रंशशब्दः सामान्यभूतं तस्य यौगिकार्थ निमित्तीकृत्य व्याख्यायते । यथा रुद्रटः,
षष्ठोऽत्र भूरिमेदो देशविशेषादपभ्रंशः ॥ ६
इदं खल्वपभ्रंशलक्षणं न साधु, रूढार्थावमानत्वात् , संस्कृत. शब्दयौगिकार्थवदपभ्रंशशब्दस्य केवलं यौगिकार्थप्रदानेनार्थानुपपत्तेः। यत्तु विक्रमार्कीयसप्तमशताब्दीभाविना दण्डिना समवालोकि तत्तु नवमशताब्दीयेन रुद्रटेनानवलोकितमिति दुष्प्रतर्कमेव । तस्मादेव रुद्रटेन सं चानुसृत्यान्यैः कैश्चिदालंकारिकैरुपनिबद्धमपभ्रंशलक्षणं न स्वीकारार्हम् । द्वादशशताब्दीयेन वाग्भटेन किंचिसंस्कृत्यापभ्रंशलक्षणमुपनिबध्यते । यथा,
अपभ्रंशस्तु यच्छुद्धं तत्तद्देशेषु भाषितम् ॥ 'शुद्ध' मित्यनेन शब्देन ता देश्यभाषाः सूच्यन्ते यास्तत्कालीनलौकिकवाये परमोत्कृष्टत्वात्समापन्नप्रतिष्ठा आसन् । वाग्भटस्त्वेवं सर्वा देश्यभाषा अपभ्रंशपक्षे न निक्षिपति । आलं. कारिकवचनानुगामिन उपरितनविवेचनस्य निष्कर्ष वयमुपसंहरामः। काश्चिद् देश्यभाषाः काव्यादिष्पनिबद्धत्वाद्विद्वज्जनप्रयुज्यमानत्वात्परां शुद्धिमाप्नुवन् । तासां च विशेषत आभीरादीनां गिरः अपभ्रंशतया स्मयन्त इति ॥
यथा महाराष्ट्राश्रया भाषा प्रकृष्टप्राकृतपदं समारूढा सामान्यतः प्राकृताभिधव ज्ञायते तथैव राजस्थान-मरुदेश-गुर्जरत्रा
६. रुद्रट-कान्यालंकार, २-१२. ७. वाग्बट-काम्यालकार. २-३.