________________
अधुना भारतवर्षे विविधाभिर्देश्यभाषाभिस्तत्संस्कारव्यक्तित्वं समासादितं यत्तासां पारंपर्येतिहासाध्ययने पुराविदः पण्डितान् प्रेरयति । भारतवर्षस्य उदीच्यप्रान्तीयानां विविधानां देश्यभाषाणां सम्यगैतिहासिकमध्ययनं तदैव खलु सिध्यति यदा संस्कृतप्राकृतयोर्विविधानां देश्यभाषाणां चान्तराले स्थितस्यापभ्रंशस्य सूक्ष्मदृष्ट्या समवलोकनं क्रियते । सामान्यतस्त्वार्यावर्तस्य पश्चिमदिग्देशेषुच्यमानानामर्वाचीनदेश्यभाषाणां विशेषतश्च गुर्जरत्रायां प्रयुज्यमानाया अर्वाचीनगुर्जर्याः सर्वाङ्गपर्यालोचनमपभ्रंशस्य सूक्ष्माध्ययनं विना दुःशकमेव । बहवोऽपभ्रंशकृतयो जैनै रक्षितेषु हस्त लिखित पुस्तकागारेषु संलभ्यन्ते । चतुःपश्चा अपभ्रंशकृतयोऽ. द्यापि कचित्पण्डितैर्यथार्थ संपादितमुद्रिताः । प्राकृतार्वाचीनदेश्यभाषाऽन्तरालवर्त्यपभ्रंशविषयेऽर्वाचीन गुर्जरी भाषामुद्दिश्य प्रभूत• मध्येयमवशिष्यते । तदध्ययनं तु तदैव सुशकं यदा प्रसिद्धाप्रसिद्धापभ्रंशग्रन्थेभ्यो यथाकालक्रममुद्धरणानि संकलय्यैक एव ग्रन्थो विदुषां करकमले निधीयते । एतत्प्रयोजनमवधार्यास्माभिरेषाऽपभ्रंशपाठावली संयोजिता । अयं त्वपभ्रंशपाठावल्याः प्रथमोऽशो विक्रमार्केयसप्तमशताब्द्या आरभ्य दशमशताब्दीपर्यन्तं यथालब्धप्रसिद्वाप्रसिद्धापभ्रंशवाङ्मयं यथाशक्त्यालोच्य चतुर्दशसुद्धरणेषु संकलितः । अस्याः खलु द्वितीयेऽशेऽवशिष्टापभ्रंशवाङ्मय पर्यालो. वनं कर्तुमाशास्महे ॥
को नामाsपभ्रंशः । भगवता पतञ्जलिना गदितं " भूयांसोsपशब्दाः, अल्पीयांसः शब्दा इति । एकैकस्य हि शब्दस्य बह वोsपभ्रंशाः तद् यथा गौरित्यस्य शब्दस्य गावी गोणी गोता गोपोतालिकेत्यादयो बहवोऽपभ्रंशा " इति । दण्डिना काव्यादर्श - ४ । पभ्रंशशब्दस्य द्विविधोऽर्थोऽभिहितः । यथा,
आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः । शास्त्रे तु संस्कृतादन्यदपभ्रंशतयोदितम् ॥
४. महाभाष्य - अ० १. पा. १. आह्निक १. पत्र ५० दण्डिन् - काव्यादर्श - अ. १. ३६.