________________
निवेदनम्। सर्वमिदं नामरूपात्मकं जगत्प्रायो पाचायाः प्रभावेण समुः योतितं भवति । तस्मादेव वाचाया महिमा श्रुतिभिरपि गीयते । तथा ह्येतरेयाण्यके "वाचा वै वेदाः संधीयन्ते, वाचा छंदांसि वाचा मित्राणि संदधति वाचा सर्वाणि भूतान्यथो वागेवेदं सर्व" मिति' । संसारव्यवहारायावश्यकं जनानां पारस्परिकं संधावं वाचैव क्रियत इत्येतत्सत्यममुष्याः श्रुतेः प्रादुर्भवति । एष एवा. भिप्रायो दण्डिनाऽपि काव्यादर्श समुपदर्शितः,
" इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम्
यदि शब्दाह्वयं ज्योतिरा संसारान दीप्यते ॥” इति । देशजनसमूहपरिच्छिन्ना एकाऽपि वाग् विविधासु भाषालु संविभक्ता भवति । प्रत्येकं भाषा तत्तद्देशजनसमूहसंस्कारलक्षः णान्याविष्करोति । यथा यथा कस्याश्चित् प्रजायाः संस्कृति समुपबृंहते तथा तथा तस्या भाषासमृद्धिरपि विपुलता वैविध्यं सौक्ष्म्यं चावाप्नोति । प्रजायाः संस्कार एव भाषायाः परा शक्तिः। भाषापारंपर्यस्य सर्वाङ्गं गवेषणं तद्भाषाभाषिण्याः प्रजायाः संस्कतेरितिहासं व्यनक्ति । तस्मादेव भारतवर्षे प्राचीनतमा ऋषयः निरुक्तव्याकरणे वेदाङ्गकक्षायां न्यदधुः । गोर्वाणभाषासत्वान्वेषणपरेण भगवता पतञ्जलिना भारतवर्षीयसंस्कृतिसौष्ठवरिरक्षणा तस्मादेव कंचिद्ब्राह्मणग्रन्थमवतार्य समुद्घोषितम् । “एकः शब्दः सम्यग्शातः शास्त्रान्वितः सुप्रयुक्तः स्वर्ग लोके कामधुग्भवती" ति ॥
१. ऐतरेयारण्यक. ३. १. ६. . २. दण्डिन्-काव्यादर्श-अ० १. श्लो. २-३.
३. पतञ्जलि-व्याकरणमहाभाष्य-अ. १. पा. १. आहिक १-पत्र (५. (निर्णयसागरावृत्तिः)