________________
६४
श्रीलघ्वल्पबहुत्वम् स्तोकाः । कौबेर्यां तावत्प्रमाणभवनानामभावाच्छुषिराभावेन पृथ्वीजीवाः प्रचुरतराः । पूर्वस्यां प्रचुरतराः पृथिवीजीवाश्चन्द्रद्वीपानां तत्र सद्भावात् । पश्चिमायां प्रचुरतमाः पृथ्वीकायिकाः सूर्यद्वीपानां गौतमद्वीपस्य च तत्र सद्भावात् । 'दउसम तेऊ पुपासु कमा' इति दक्षिणस्यामुत्तरस्यां च समौ तेजस्कायिको भरतैरवतानां तुल्यत्वात्, तेषु हि कदाचित्तेजस्कायिकानां सद्भावः कदाचिच्च युगलधार्मिकादिकालेऽभावः स्याद्बादराणामतस्तुल्यता द्वयोरपि दिशोः । पूर्वस्यां बहुतरास्तेजस्कायिकाः पूर्वविदेहादिषु पञ्चसु सदैव तत्सद्भावात् । पश्चिमायां बहुतमा अधोग्रामाणां तत्र सद्भावात्, सहस्रयोजनावगाहित्वेन सर्वतो भूमेः प्राचुर्येण ग्रामाणां प्राचुर्यात्तेजसः प्राचुर्यम् ॥१॥ 'पूपउदासुंवाऊ' इति पूर्वस्यां वायुरल्पः शुषिराभावात् । पश्चिमायां बह्वधोग्रामसद्भावे शुषिरसद्भावात् बहुतरो वायुः । उत्तरस्यां भवनानां प्राचुर्येण शुषिरप्राचुर्याद्वायोरपि प्राचुर्यम् । दक्षिणस्यां चत्वारिंशल्लक्षभवनाधिक्येन शुषिरप्राचुर्याद्बहुतमो वायुः ॥२॥ इति शम् ।
॥इति श्रीलघ्वल्पबहुत्वावचूर्णिः समाप्ता ॥