________________
श्रीलघ्वल्पबहुत्वम्
अज्ञातकर्तृकम्
॥श्रीलघ्वल्पबहुत्वम्॥
॥सावचूर्णिकम्॥ पपुदउकमसो जीवा, जलवणविगला पणिंदिआ चेव । दउपूपासुं पुढवी, दउसम तेऊ पुपासु कमा ॥१॥ पूपउदासुं वाऊ, सत्तण्ह जमुत्तरेण माणसरं । पच्छिम गोयमदीवो, अहगामा दाहिणे झुसिरं ॥२॥
॥ इति दिक्चतुष्कजीवाल्पबहुत्ववाचकं गाथाद्वयम् ॥
अवचूरिः- गाथाद्वयव्याख्या यथा-'पपुदउकमसो' इति पश्चिमापूर्वादक्षिणोत्तरासु जीवाः क्रमेण सामान्यतः स्तोका बहवो बहुतरा बहुतमाः जलवनद्वित्रिचतुष्पञ्चेन्द्रियाश्चैव, सप्तानामप्यमीषां जले प्राचुर्यम्, जलं च पश्चिमायां स्तोकं रविद्वीपानामसङ्ख्यातानां गौतमद्वीपस्य च तत्र सद्भावात् । पूर्वस्यां जलं ततो भूरि, यतो यावन्तो रविद्वीपाः पश्चिमायां तावन्तश्चन्द्रद्वीपाः पूर्वस्यां सन्ति, तथापि पूर्वस्यां गौतमद्वीपो नास्तीति तत्र जलप्राचुर्यम्, ततः सप्तापि तत्र प्रचुराः । दक्षिणस्यां ततः प्रचुरतरं जलम्, तत्र रविचन्द्रगौतमद्वीपानामभावात् । उदीच्यां प्रचुरतमं जलम्, तत्र मानससरसः सङ्ख्येययोजनकोटाकोटीप्रमाणस्य सद्भावात्, अतस्ते तत्र भूरितमाः । 'दउपूपासुं पुढवी' इति याम्योत्तरपूर्वपश्चिमासु पृथ्वीकायिकाः क्रमेण प्रवर्द्धमानाः । तत्र याम्यायां चत्वारिंशल्लक्षभवनाधिक्यसद्भावात् प्रचुरं शुषिरमिति पृथ्वीजीवाः