________________
૫૫
श्रीकायस्थितिस्तोत्रम् ___ अवचूरिः - पर्याप्तसञ्जिनरेषत्कर्षेणोत्पत्तिमाश्रित्य ग्रैवेयकानतादिकल्पचतुष्कदेवाः स्वभवादारभ्य षड्भवपूरका भवन्ति । तथा चतुरनुत्तरविमानवासिसुराः स्वभवादारभ्य पर्याप्तसज्ञिनरेषूत्पद्यमानाश्चतुर्भवपूरकाः। 'दुजहन्न' इति सर्वेषामप्येषां ग्रैवेयकानतादिकल्पचतुष्कानुत्तरचतुष्कसुराणां पर्याप्तनरेषूत्पद्यमानानां जघन्यतो द्वौ भवौ भवतः । 'दुहावि दुसवट्ठा' इति जघन्यत उत्कर्षतश्च सर्वार्थसिद्धिसुराः पर्याप्तनरेषूत्पद्यमाना द्विभवा एवेति ॥१८॥
भूजलवणेसु दु भवा, दुहावि भवणवणजोइसदुकप्पा। अमियाउ तिरिनरे तह, मिह सन्नियरतिरिसन्निनरा ॥१९॥
अवचूरिः- पृथिव्यब्वनस्पतिकायिकेषूत्पद्यमाना जघन्यत उत्कर्षतोऽपि च भवनपतिव्यन्तरज्योतिष्काः सौधर्मेशानकल्पद्वयदेवाश्च भवद्वयमेव पूरयन्ति, पृथ्व्यादिभ्य उद्धृत्य भवनपत्यादिषूत्पादाभावात्। तैजस्कायिकवायुकायिकयोस्तु देवगतिगमनासम्भवात्तद्विषयो भवसंवेधोऽत्र नाभिहितः । तथाऽमितायुष्केषु युगलिष्वित्यर्थः, तिर्यङ्नरेषूत्पद्यमानाः सञ्ज्यसज्ञितिर्यञ्चः सञ्जिनराश्च मिथः परस्परं द्विभवाः । तथाहि-सञ्ज्यसज्ञिरूपतिर्यञ्चो युगलिमनुष्येषु युगलितिर्यक्षु च तथा सचिनरा युगलितिर्यक्षु (युगलि)मनुष्येषु चोत्पद्यमाना भवद्वितयमेव सम्पादयन्ति, नाधिकम्, युगलिभवादनन्तरं देवगतावेव गमनात् ॥१९॥
भूजलपवणग्गी मिह, वणा भुवाइसु वणेसु य भुवाई। पूरंति असंखभवे, वणा वणेसु य अणंतभवे ॥२०॥
अवचूरिः - भूजलपवनाग्निकायिका मिथोऽन्योन्यमेकान्तरभवग्रहणप्रकारेणासङ्ख्यातान् भवान् पूरयन्ति । यथा कश्चित्पृथ्वीकायिकोऽब्वाय्वग्निकायिकेष्वन्यतरस्मिन्नुत्पद्यते, ततः पुनः पृथिवीत्वेन ततः पुनस्तेषां विवक्षितेऽन्यतरस्मिन्नित्येवमप्कायिकाद्यन्यतरभवान्तरत्वेनैकान्तरं पृथ्वीकायिका उत्कर्षतोऽसङ्ख्येयान् भवान् परिभ्रमन्ति, एवमप्कायिको