SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ૫૪ श्रीकायस्थितिस्तोत्रम् तथा तमस्तमाभिधसप्तमपृथ्व्यां जघन्यत उत्कर्षतश्च मनुष्य उत्पद्यमानो भवद्वयं पूरयति, तस्या उद्धृतस्य मनुष्येष्वनागमनात् ।।१५।। दुहजुगलि तिरिअमणुआ, दुभवा भवणवणजोइकप्पदुगे। रयणप्पहभवणवणे, दुहदुभवअसन्निपजतिरिओ ॥१६॥ अवचूरिः - युगलिनस्तिर्यञ्चो मनुष्याश्च द्विधाऽपि जघन्यत उत्कर्षतश्च भवनपतिव्यन्तरज्योतिष्केषु कल्पद्वये चोत्पद्यमाना द्विभवा भवद्वयमेव पूरयन्तीत्यर्थः । भवनपत्यादिभ्यश्च्युतस्य युगलिषूत्पत्त्यसम्भवात् । तथा रत्नप्रभायां प्रथमपृथ्व्यां भवनपतिव्यन्तरेषु च पर्याप्तासञ्जितिर्यद्विधाऽपि भवद्वयमेव पूरयति, नाधिकम् ॥१६।। पजसन्नितिरिनरेसु य, सहसारंता सुरा य छन्निरया । अडभव सत्तमनिरया, तिरिए छभव चउ पुन्नाऊ ॥१७॥ अवचूरिः - पर्याप्तसज्ञिविशेषणविशिष्टेषु तिर्यक्षु नरेषु चोत्पद्यमानाः सहस्रारान्ता भवनपतिव्यन्तरज्योतिष्कप्रथमकल्पाष्टकोद्भवाः सुराः षड्नरकसम्भविनो नारकाश्चाष्टभवान् पूरयन्ति । यथा कश्चिद्भवनपत्यादिश्च्युत्वा पर्याप्तसञ्जिनरेषूत्पन्न एवमसौ भवनपत्यादिभ्यश्च्युत्वैकान्तरभवोत्पत्त्या चतस्रो वाराः पर्याप्तसज्ञिनरो जायते, ततोऽष्टभवानन्तरं तस्य पर्याप्तसंज्ञिनरस्य भवनपत्यादिषूत्पादाभावादष्टेव भवा भवन्ति । एवं पर्याप्तसंज्ञितिर्यग्विषयेऽपि भाव्यम् । तथा सप्तमपृथ्वीनारका:सज्ञिपर्याप्ततिर्यसूत्पत्तिमाश्रित्य षड्भवपूरकाः, एकान्तरं चतुर्थवारायां सप्तमपृथिव्यां गमनासम्भवात । तथा पूर्णायुरुत्कृष्टायुः पुनः सप्तमपृथिवीनारकः स्वभवादारभ्य चतुर एव भवान् पर्याप्तसञ्जितिर्यक्षु भ्रमति, नाधिकान् । एतद्भवसंवेधकालस्याभ्यधिकषट्षष्टिसागरमितस्यातिक्रमप्रसङ्गात् ॥१७॥ पजसन्निनरे छभवा, गेविज्जाण य चउक्कदेवा य । चउणुत्तरा चउभवा, दु जहन्न दुहावि दुसवठ्ठा ॥१८॥ १. 'मत्स्येष्वेवागमनात्' इति पुस्तकान्तरे पाठः।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy