SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीकायस्थितिस्तोत्रम् પ૩ यदि पुनरुत्कृष्टस्थितिषु नारकेषूत्पद्यते, तदा किमित्याह-'पण पुन्नाउसु' इति पूर्णायुष्केषु त्रयस्त्रिंशत्सागरोपमरूपोत्कृष्टस्थितिसप्तमपृथिवीनारकेष्वेकान्तरमुत्पद्यमानस्य तिरश्चः पञ्च भवा भवन्ति । यदुक्तम्-“कालाएसेणं जहन्नेणं बावीसं सागरोवमाइं दोहिं अन्तमुहुत्तेहिं अब्भहियाई उक्कोसं छावट्ठिसागरोवमाई चाहिं पुव्वकोडीहिं अब्भहियाइंति"। त्रयस्त्रिंशत्सागरोपमायुष्कत्वे वारद्वयं नरकपृथ्व्यां वारत्रयं तिर्यक्षुत्पत्तेस्तिर्यग्भवत्रयायुःकालाधिकषट्षष्टिसागराणां जातत्वात्ततः पुनरपि सप्तम्यां नारकत्वे नोत्पद्यते, एतद्भवसंवेधकालस्योत्कृष्टस्यातिक्रमप्रसङ्गात् । ति जहन्न' इति जघन्यतस्त्रीणि भवग्रहणानि भवन्ति, तिरश्चः सप्तमपृथ्वीनारकत्वेनोत्पद्य पुनस्तिर्यक्त्वेनोत्पत्तौ, मनुष्यस्य तु सप्तमपृथ्व्यामुत्पद्यमानस्य जघन्यत उत्कर्षतश्च भवद्वयमेवावाप्यते, सप्तमपृथ्व्या उद्धृतस्य मत्स्येष्वेवोत्पादात्॥१४॥ गेविज्जाणयचउगे, सग पणणूत्तरचउक्कि ति जहन्नं । पज्जनरो तिसवढे, दुहा दुभव तमतमाइ पुणो ॥१५॥ अवचूरिः- ग्रैवेयकेषु आनतादिकल्पचतुष्के च पर्याप्तसचिनर एकान्तरं व्रजन् ‘सग' इति सप्तभवान् पूरयति । यथा कश्चिन्नर आनतादिषूत्पन्नस्ततश्च्युतो मनुष्येषु तत आनतादिषु ततो मनुष्यस्ततः पुनरप्यानतादिषु ततो मनुष्यस्तदनन्तरं मृत्वाऽऽनतादिषूत्पादाभावात् सप्तैव भवा एकान्तरिता अवाप्यन्ते, नाधिका इति । तथाऽनुत्तरचतुष्के विजयवैजयन्तजयन्तापराजितरूपे पञ्च भवा भवेयुः । आदिमध्यान्तभाविनरभवत्रयमन्तरालद्वयसम्भवं च विजयादिभवद्वयमित्येवं पञ्चैव भवाः स्युरिति । जघन्यतस्तु भवत्रयमानतादिदेवानां मनुष्येभ्य एवोत्पद्य मनुष्येष्वेव प्रत्यागमनात् । तथा सर्वार्थसिद्धिनाम्नि पञ्चमानुत्तरविमाने द्विधा जघन्यत उत्कर्षतोऽपि त्रय एव भवा भवन्ति, तस्माच्च्युतस्य मनुष्यस्यावश्यं सिद्धिगमनात्तत्रोत्पादाभावः । १. 'जहन्ना' इति पुस्तकान्तरे ।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy