SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ૫૦ श्रीकायस्थितिस्तोत्रम् उत्पद्यते, अष्टम्यां तु वारायां यद्यसौ तेषूत्पद्यते तदा नियमादसङ्ख्येयवर्षायुष्केष्वेवेति । तत्र चोत्कृष्टं त्रीणि पल्योपमान्यायुर्भवति । एवं च पञ्चेन्द्रियतिरश्चामष्टभिर्भवैस्त्रीणि पल्योपमानि पूर्वकोटिसप्तकाभ्यधिकानि कायस्थितिः सम्पद्यते । एवं मनुष्येष्वपि भावना । तथा 'थीसु' इति । स्त्रीवेदविषय उत्कर्षतो दशाधिकपल्योपमशतं पूर्वकोटिवर्षपृथक्त्वयुतं कायस्थितिरवसातव्या । यथा कश्चिज्जन्तुः स्त्रीषु वर्षपूर्वकोट्यायुष्कासु मध्ये पञ्चषान् भवाननुभूयेशाने कल्पे पञ्चपञ्चाशत्पल्योपमप्रमाणोत्कृष्टस्थितिष्वपरिगृहीतासुदेवीषूत्पन्नस्ततश्च्युत्वा भूयोऽपि नारीषु तिरश्चीषु पूर्वकोटिवर्षायुष्कासु मध्ये स्त्रीत्वेनोत्पन्नस्ततो भूयोऽपीशाने पञ्चपञ्चाशत्पल्योपमस्थितिदेवीत्वेनोत्पन्नस्ततः परमवश्यं वेदान्तरे गच्छति । एवं दशोत्तरं पल्यशतं वर्षपूर्वकोटीपृथक्त्वाधिकं प्राप्यत इति ॥१०॥ ___एतावता तिर्यग्गत्यसङ्ग्येकेन्द्रियादिषूत्कृष्टां कायस्थितिमभिधाय, अधुना जघन्यामभिधित्सुराह इत्थिनपुंसे समओ, जहन्नु अंतोमुहुत्त सेसेसु। अपजेसुक्कोसंपि य, पजसुहुमे थूलणंतेऽवि ॥११॥ अवचूरिः - स्त्रीवेदे नपुंसकवेद च जघन्या कायस्थितिः समयः । यथा स्त्रीवेदोदयी नपुंसकवेदोदयी वा कश्चिज्जन्तुरुपशमश्रेण्यां वेदत्रयोपशमनादवेदकत्वमनुभूय ततः श्रेणेः प्रतिपतन् स्वभववेदमेकसमयमनुभूय द्वितीयसमये कालं कृत्वा देवेषूत्पद्यते, तत्र च तस्य पुंस्त्वमेव नापरो वेदः । एकमेकः समयो जघन्या स्थितिः स्त्रीवेदे नपुंसकवेदे च भवतीति । शेषेषु जघन्या कायस्थितिरन्तर्मुहूर्तमवगन्तव्या । येषां पूर्वमत्रादित एवारभ्योत्कृष्टा कायस्थितिरुक्ता, तेषु स्त्रीवेदनपुंसकवेदयोर्जघन्यकायस्थितेः समयप्रमाणायाः प्रदर्शितत्वात्तदपेक्षया शेषेषु तिर्यग्गत्यादिषु सुरनारकवजितेषु यथायोग्यमन्तर्मुहूर्तमाना कायस्थितिर्वाच्या । यतः सूक्ष्मबादरपृथिव्यायेकेन्द्रियाणां विकलेन्द्रियाणां सञ्ज्यसज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणां च जघन्यतोऽप्यायुरन्तर्मुहूर्तमितमेव स्यान्न समयादिमानम्, अत एषां जघन्यायुर्भवमनुभूय
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy