SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ४८ श्रीकायस्थितिस्तोत्रम् अत उत्कृष्टस्थित्यादिकतिपयपर्याप्तभवसम्भवे सङ्ख्येयान्येव रात्रिन्दिवानि भवन्ति । द्वीन्द्रियस्योत्कर्षतो भवस्थितिपरिमाणं द्वादशवत्सराणि, ततो निरन्तरपर्याप्तभवकालसङ्कलनेऽपि सङ्ख्येयान्येव वर्षाणि लभ्यन्ते, न तु वर्षशतानि वर्षसहस्राणि वा । त्रीन्द्रियस्याप्युत्कृष्टभवस्थितेरुत्कर्षत एकोनपञ्चाशद्दिनमानतयाऽव्यवहितपर्याप्तभवायुःकालमीलने सङ्ख्येयान्येव दिनानि प्राप्यन्ते । चतुरिन्द्रियाणां भवस्थितेरुत्कर्षतः षण्मासप्रमाणतया निरन्तरभवस्थितिमीलने सङ्ख्येया मासाः प्राप्यन्ते। तथा त्रसेषूत्कर्षतः सङ्ख्यातवर्षाभ्यधिके द्वे सागरोपमसहस्रे कायस्थितिरवगन्तव्या ॥८॥ अयरसहस्सं अहियं, पणिदिसु तित्तीसअयर सुरनरए। सन्निसु तह पुरिसेसुं, अयरसयपुहुत्तमब्भहियं ॥९॥ अवचूरिः- पर्याप्तापर्याप्तविशेषणरहितेषु सामान्येन पञ्चेन्द्रियेषु सागरोपमसहस्रं सङ्ख्येयवरैरधिकमुत्कृष्टा कायस्थिति येति। पर्याप्तस्य तु पञ्चेन्द्रियस्य सातिरेकसागरोपमशतपृथक्त्वप्रमाणैवोत्कृष्टा कायस्थितिर्वक्तव्या । तथा सुरनरकगतिद्वये त्रयस्त्रिंशत्सागरोपमानि कायस्थितिः, यतो नैरयिकाः स्वभवाच्च्युत्वाऽनन्तरं तथाभवस्वाभाव्यान्न भूयोऽपि नैरयिकत्वेनोत्पद्यन्ते, ततो यदेव तेषां भवस्थितेः परिमाणं तदेव कायस्थितेरपि । एवं सुराणामपि । जघन्यतस्तु दशवर्षसहस्राणि द्वयोरपि । तथा सज्ञिपञ्चेन्द्रियेषु वेदमाश्रित्य पुरुषेषु च सागरोपमशतपृथक्त्वमभ्यधिकमवसेयं कायस्थितिपरिमाणत्वेन । जघन्यतस्त्वन्तर्मुहूर्त्तमिति ॥९॥ गब्भयतिरियनरेसु य, पल्लतिगं सत्तपुव्वकोडिओ। दसहियपलियसयं, थीसु पुव्वकोडीपुहुत्तजुअं ॥१०॥ अवचूरिः - गर्भजतिर्यग्नरेषूत्कर्षतः पल्योपमत्रिकं सप्तपूर्वकोट्यश्च कायस्थितिर्भवति । तथाहि-इह तावत्पूर्वकोटिवर्षायुष्कः पञ्चेन्द्रियतिर्यङ् पूर्वकोटिवर्षायुष्केषु पञ्चेन्द्रियतिर्यक्षु पुनः पुनरुत्पद्यमान उत्कर्षतः सप्तवारा
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy