________________
४८
श्रीकायस्थितिस्तोत्रम् अवचूरिः - सङ्ख्येयानि वर्षसहस्राणि पर्याप्तापर्याप्तविशेषणविकलद्वीन्द्रियादिविकलेन्द्रियेषु (न तु सङ्ख्येयवर्षसहस्राणीति वाच्यम्, सिद्धान्तेन समं संवादाभावात् । सिद्धान्ते हि पर्याप्तापर्याप्तविशेषमकृत्वा प्रत्येकमेतेषु सङ्ख्येयकालस्वरूपा कायस्थितिरुक्ता । अतोऽत्राऽपि 'संखिज्ज' इति पदं केवलं पृथक्क[त्वे] (त्वा द्वी)न्द्रियादिषु योज्यम्। 'संखिज्जवाससहसे' इति संमिलितमुत्तरार्दोद्दिष्टपर्याप्तबादरैकेन्द्रियादिषु । इति पुस्तकान्तरे) अयं भावार्थ:-ओघतो द्वीन्द्रियादिजातिषु कियद्भवभ्रमणसम्भवनेन प्रत्येकं च सङ्ख्येयकालस्वरूपैव कायस्थितिः सम्भवति । अथ पर्याप्तादिविशेषणविशिष्टानां बादरैकेन्द्रियपृथिव्यादीनामग्रेतनगाथायां च द्वीन्द्रियादीनां कायस्थितिमाह-पर्याप्तबादरनामकर्मोदयवर्तिन एकेन्द्रिया भूजलानिलाः 'परित्तेसु' इति प्रत्येकवनस्पतयस्तेषु प्रत्येकं सङ्ख्येयानि वर्षसहस्राणि भ्रान्तोऽस्मि । इदमुक्तं भवति-अमुक्तपर्याप्तत्वपर्यायस्य बादरैकेन्द्रियस्य पृथिव्याद्यन्यतरत्वेनोत्पद्यमानस्योत्कृष्टायुष्कभवसङ्कलनया सङ्ख्येयान्येव वर्षसहस्राणि जायन्ते नाधिकम् । तथाहि-पर्याप्तबादरपृथिवीकायिकस्योत्कर्षतो द्वाविंशतिवर्षसहस्त्राणि भवस्थितिः । अप्कायिकस्य सप्तवर्षसहस्राणि । वायुकायिकस्य त्रीणि वर्षसहस्राणि । वनस्पतिकायिकस्य दशवर्षसहस्राणि । तत एतेषु निरन्तरकतिपयपर्याप्तभवायुःकालसङ्कलनया सङ्ख्येयानि वर्षसहस्राणि घटन्त इति । इह पर्याप्तो लब्ध्यपेक्षया वेदितव्यो न करणापेक्षया लब्धिपर्याप्तस्य तु विग्रहगतावपि सम्भवात् ।।७।।
बायरपजग्गिबितिचउरिदिसु संखदिणवासदिणमासा । संखिज्जवासअहिया, तसेसु दो सागरसहस्सा ॥८॥
अवचूरिः- बादरपर्याप्ताग्निकायिकस्य पर्याप्तद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां सङ्ख्यातान् क्रमेण दिनवर्षदिनमासान् यावत्कायस्थितिरवसेया। किमुक्तं भवति?-बादरपर्याप्ताग्निकायिकस्योत्कर्षतो भवस्थितिस्त्रीणि रात्रिन्दिवानि, १. 'सङ्ख्येयं कालम्' इति पुस्तकान्तरे ।