SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीकायस्थितिस्तोत्रम् मवगन्तव्यम् । एतच्च कायस्थितिस्वरूपं सांव्यवहारिकजीवविषयमेव, सूक्ष्मनिगोदजीवानामसांव्यवहारिकराशिनिपतितानामनादितायाः प्राग्दर्शितत्वात् । सूक्ष्मवनस्पतयोऽप्यत्र सांव्यवहारिका ग्राह्या इति ॥४॥ ओहेण बायरत्ते, तह बायरवणस्सईसु ता उ पुणो। अंगुलअसंखभागे, दो सड्ढ परट्टय निगोए ॥५॥ अवचूरिः - ओघेन पृथिव्यादिविशेषाविवक्षया बादरत्वे बादरनामकर्मोदयवर्तित्वे, तथा विशेषतो बादरवनस्पतिषु ता अवसर्पिणीः, पुनरनन्तरार्थे बाहुल्ये वा, कियती:? इत्याह-अङ्गुलासङ्ख्येयभागप्रमितक्षेत्रे प्रतिसमयमेकैकाकाशप्रदेशाऽपहारेऽसङ्ख्येया उत्सर्पिण्यो लगन्ति । "अंगुलसेढीमित्ते उसप्पिणीओ असंखिज्जा" इति वचनात् । तावतीरुत्सर्पिणीरसङ्ख्याता इत्यर्थः । तथा निगोदेषु सामान्यतः सूक्ष्मबादररूपेषु द्वौ साझै पद्गलपरावर्ती भ्रान्तोऽहमभाग्यभाजनमिति ॥५॥ बायरपुढवीजलजलणपवणपत्तेयवणनिगोएसु । सत्तरिकोडाकोडी, अयराणं नाह भमिओऽहं ॥६॥ अवचूरिः - बादरेषु पृथ्वीजलज्वलनपवनप्रत्येकवनस्पतिनिगोदेषु प्रत्येकमतराणां सागरोपमानां सप्ततिकोटाकोटीर्यावदहं भ्रान्त इति । अयमर्थःबादरपृथ्वीकायिको बादरेष्वेव पृथ्वीकायिकेषु पुनः पुनरुत्पद्यमान उत्कर्षतः सप्ततिकोटाकोटिसागरप्रमाणं कालमवतिष्ठते, एवमप्तेजोवायूनां प्रत्येकवनस्पतिबादरनिगोदयोश्च स्वस्वकायबादरत्वमपरित्यजतां प्रत्येकमिदमेव कायस्थितिकालमानं वाच्यमिति ॥६॥ संखिज्जवाससहसे, बितिचउरिंदीसु ओहओ अ तहा। पज्जत्तबायरेगिंदिभूजलानिलपरित्तेसु ॥७॥
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy