SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीकायस्थितिस्तोत्रम् विसदृशभवान्तरे समुत्पद्यमानानां जघन्या कायस्थितिरन्तर्मुहूर्त्तप्रमाणैव सम्पद्यत इति । तथा लब्ध्यपेक्षयाऽपर्याप्तेषूत्कर्षतोऽप्यन्तर्मुहूर्त्तप्रमाणैव कायस्थितिः सञ्जायते । यतस्तिर्यञ्चो मनुष्याश्च यद्यप्यपर्याप्ता एव मृत्वा भूयो भूयोऽपर्याप्तत्वेन कतिपयभवान्निरन्तरं समुत्पद्यन्ते, तथापि तेषां लघुतरान्तर्मुहूर्त्तप्रमाणापर्याप्तकतिपयभवकालसम्मीलनेनोत्कर्षतोऽपि गुरुतरान्तर्मुहूर्त्तप्रमाणैवाऽपर्याप्तावस्था प्राप्यते, तत ऊर्ध्वमवश्यं लब्ध्यपर्याप्तत्वपर्यायव्यपगमात् । अपिशब्दाज्जघन्यतोऽप्यपर्याप्तेषु देवनारकाणां लब्ध्यपर्याप्तत्वाभावेनावशिष्टेषु नरतिर्यक्षु कायस्थितिरन्तर्मुहूर्त्तप्रमाणैव भवति । तथा पर्याप्तसूक्ष्मेषु 'थूलणंते' इति पर्याप्तबादरनिगोदेष्वित्यर्थः । अपिशब्दतोऽपर्याप्तोक्तजघन्योत्कृष्टस्थितिवदत्रापि भावनीयम् । तथाहिपर्याप्तावस्थामाश्रित्य सूक्ष्मेषु पृथिव्यादिषु पयाप्तबादरनिगोदेषु च जघन्यत उत्कर्षतश्चान्तर्मुहूर्तप्रमाणैव कायस्थितिरवाप्यते, तत ऊर्ध्वमवश्यमपर्याप्तत्वेनोपपत्तेरिति ॥११॥ विन्नत्ता कायठिइत्ति, कालओ नाह जह भमिय पुव्वा । भवसंवेहेणिहिं तु विन्नविस्सामि सामिपुरो ॥१२॥ ૫૧ अवचूरि :- हे नाथ! मोक्षपथप्रस्थितप्राणिनां ज्ञानादिरत्नत्रयविषययोगक्षेमकर्तृत्वेन, अधीश ! विज्ञप्ता मया यथास्वावबोधं प्रकाशिता कालतः कायस्थितिरितीति । जघन्योत्कृष्टाद्युक्तप्रकारेण प्रभोः पुरस्ताद्यथा येन प्रकारेण भ्रान्ता कायस्थितिरियं मया पूर्वमनादावतीतकाले दुरन्तचतुर्गतिकान्तारान्तर्वर्तिना महामोहतिमिरोपहतान्तरलोचनत्वात्तव दर्शनमलभमानेनेति । अथ स्तुतिकृद्विशेषार्थं विवक्षुः पुनर्जगद्गुरुं प्रत्याह- इदानीं तु स्वामिपुरतः कायस्थितिमेव भवसंवेधेन विशेषितां विज्ञपयिष्यामि । भवसंवेधश्च विवक्षितभवाद्भवान्तरे तुल्यभवे वा गत्वा पुनरपि यथासम्भवं तत्रैव गमनमिति ॥१२॥ आयुर्गुरुत्वलघुत्वकृतोऽपि भवसंवेधविचारे क्वचिद्भवसङ्ख्याभेदः स्यादतस्तद्विषयचतुर्भङ्गीप्रकाशनपूर्वं प्रतिज्ञातमाह
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy