________________
४४
श्रीकायस्थितिस्तोत्रम्
श्रीतपागच्छनायक-श्रीमत्कुलमण्डनसूरिपादप्रणीतम्
॥श्रीकायस्थितिस्तोत्रम् ॥
॥ अवचूर्या समलङ्कृतम् ॥ अवचूरिः - वर्द्धमानं जिनं नत्वा, यथाभूतार्थदेशकम् ।
कुर्वे कायस्थितिस्तोत्रे, कियदर्थप्रकाशकम् ॥१॥ इह हि श्रीप्रज्ञापनोपाङ्गविवाहप्रज्ञप्त्यादिषु कायस्थितिभवसंवेधादिविचारं सविस्तरग्रन्थनिबद्धं स्वबुद्ध्यावधार्याचार्यः कालविशेषतो हीयमानमेधाबलानां श्रीसिद्धान्तक्षीराम्भोधिमध्यमवाप्तुमप्रत्यलानां सङ्क्षिप्तरुचीनां शिष्याणामनुग्रहाय सूक्ष्मार्थसार्थसंदर्भगर्भा भक्त्यतिशयाद्भगवतस्त्रिभुवनाधिपस्य जिनस्य स्तुतिं तनोति स्म । तत्र चाभीष्टदेवतां प्रति स्वविज्ञप्तिप्रकाशनेनाभिधेयमाह
जह तुह दंसणरहिओ, कायठिईभीसणे भवारन्ने । भमिओ भवभयभंजण, जिणिंद तह विनविस्सामि ॥१॥
अवचूरिः - हे जिनेन्द्र ! तव दर्शनरहितः द्रव्यतो दृग्भ्यामवलोकनम्, भावतः सम्यक्त्वं दर्शनमुच्यते । इह सकलश्रेयसामविकलकारणत्वाद्भा -