________________
श्रीकायस्थितिस्तोत्रम्
૪૫ वदर्शनमेवाङ्गीक्रियते, द्रव्यदर्शनस्याभव्यानामप्यनन्तशः सञ्जातत्वात्, तेन तव भावदर्शनेन रहितोऽसंयुक्तोऽनवाप्तसम्यग्दर्शन इत्यर्थः । अहमिति गम्यते । उपलक्षणमिदं शेषाशेषसत्त्वानामपि । यतः सर्वेषां जीवानामयमेव भ्रमणप्रकारः । सामान्यतो जीवत्वलक्षणेन विशेषतो नैरयिकादिलक्षणेन वा पर्यायेणादिष्टस्य जीवस्य यदव्यवच्छेदेन भवनं सा कायस्थितिः, तया भीषणे भयापादके भवारण्ये यथाऽहं भ्रान्तो नैरयिकादिकायस्थितिकष्टानुभवनेन तथा तव पुरत इति गम्यते, विज्ञपयिष्यामि । सम्बोधनद्वारेण विज्ञापनाहेतुमाह'भवभयभंजण' इति भवस्तिर्यगादिगतिसंसरण[गति]लक्षणस्तस्य यद्भयं पुनस्तद्भ्रमणाशङ्कालक्षणं तद्भनक्तीति स तथा तस्य सम्बोधनं भवभयभञ्जन ! इति ॥१॥
इह हि स्तुतिकृता जीवानां कायस्थितिर्विचारयितुमुपक्रान्ता, सा च सामान्यविशेषाभ्यां द्विधा । सामान्यतः संसारिणो जीवस्य जीवनं प्राणधारणम्, सर्वकालमायुःकर्मानुभवनलक्षणद्रव्यप्राणज्ञानादिभावप्राणाभ्यां सर्वदैवाविरहितत्वात्, मुक्तानां तु ज्ञानादिप्राणधारणमवस्थितमेव वर्त्तते, अतः संसार्यवस्थायां मुक्तावस्थायां च सर्वत्र सर्वकालं जीवनमस्तीति । विशेषतस्तु कायस्थिति स्तोत्रकृदेवाह
अव्ववहारियमज्झे, भमिऊण अणंतपुग्गलपरट्टे। कहवि ववहाररासिं, संपत्तो नाह तत्थऽवि य ॥२॥
अवचूरिः - इह द्विधा जीवाः, सांव्यवहारिका असांव्यवहारिकाश्च । तत्र येऽनादिनिगोदावस्थात उद्धृत्य पृथ्वीकायिकादिभवेषु वर्त्तन्ते, ते लोके दृष्टिपथमागताः सन्तः पृथ्व्यादिव्यवहारमनुपतन्तः सांव्यवहारिका उच्यन्ते, ते च यद्यपि निगोदावस्थां भूयोऽप्युपयान्ति तथापि ते संव्यवहारे पतितत्वात्सांव्यवहारिका एवोच्यन्ते । ये पुनरनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते, ते व्यवहारपथातीतत्वादसांव्यवहारिकाः । अव्यवहारिकाऽनादिनिगोदजीवराशिमध्येऽतीताद्धाया अनादित्वेनानन्तान्पुद्गलपरावर्तानवस्थाय