SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीकायस्थितिस्तोत्रम् श्रीमन्मुनिसुन्दरसूरिपादप्रणीतपद्यगुर्वावल्याम्-"जन्माङ्कस्वैरभ्यधिकेषु शक्रेष्व १४०९ श्वौषधीशैत १४१७ मक्षिवेदैः १४४२ । सूरेः पदं चापशरेषुभि १४५५ स्ते, चैत्रे ययुः स्वर्जगतामभाग्यात् ॥ ६८ ॥" बहुश्रुतश्रीमर्द्धमसागरोपाध्यायपादप्रणीतस्वोपज्ञपट्टावल्यामप्येवमेव तद्यथा"श्रीकुलमण्डनसूरीणां च वि० नवाधिके चतुर्दशशत १४०९ वर्षे जन्म, सप्तदशाधिके १४१७ व्रतम्, 'द्विचत्वारिंशदधिके १४४२ सूरिपदम्, पञ्चपञ्चाशदधिके १४५५ स्वर्गः" । अपरं श्रीप्रज्ञापनोपाङ्गतः श्रीचान्द्रकुलीननवाङ्गीवृत्तिकारश्रीमदभयदेवाचार्यसङ्ग्रहीतबहुभव्योपकारिसारार्थसङग्रहण्यपरनामाल्पबहुत्वप्रकरणस्य श्रीमत्कुलमण्डनगणिनिर्मितावचूर्ण्यवसाने-"श्रीदेवसुन्दरगुरोः, प्रसादतोऽवगतजिनवचोऽर्थलवः । कुलमण्डनगणिरलिखदवचूर्णिमेकाब्धिभुवनाब्दे १४४१ ॥ १ ॥" एतत्पुस्तकत्रितयीनिरीक्षणेनामीषां कालनिर्णयो निर्विरोधं विक्रमार्कीयनवाभ्यधिकचतुर्दशशततमवर्षादारभ्य पञ्चपञ्चाशदधिकचतुर्दशशततमाब्दीयमध्यवत्येवेति निश्चीयते । अतिचारुचरणाचरणचमत्कृतचेतोविचक्षणव्रातवन्दितपादारविन्दवाचंयमाग्रेसरैरेभिः कति ग्रन्था विनिर्मिताः ? इति पर्यालोचनायां प्रवर्त्तमानायां यत्प्रत्यपादि गुर्वावल्यां श्रीमुनिसुन्दरसूरिपादैः - "निजतीर्थिकपरिकल्पित-कुमतोद्धरशैलदलनशतधारः । तन्निर्मितो विजयते, सिद्धान्तालापकोद्धारः ॥ ७७ ॥ अष्टादशारचक्रं, तेषां हारश्च सपदि भापयते । विबुधानामपि हृदयं, चञ्चद्वर्णस्फुरद्भाभृत् ॥ ७८ ॥" एते काव्यद्वयोक्ता अपरेऽपि च कल्पान्तर्वाच्य-कायस्थित्याद्या अमीभिर्विनिर्मिताः सुधासेकसन्निभा दृष्टिपथपान्थतां समायान्ति ग्रन्थाः । अस्य स्तवात्मकस्य प्रकरणस्यावचूर्णिः केन कदा प्रणीता ? इत्येतद्विषयनिर्णयस्त्ववचूाः प्रणेतुरभिधानाद्यनुपलम्भान्निणेतुं न
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy