________________
श्रीकायस्थितिस्तोत्रम्
४१
॥ अर्हम् ॥
॥ प्रस्तावना ॥
विदितमेव खलु तत्रभवतां सङ्ख्यावतां यदिह वसुमतीमण्डले जगत्प्रसिद्धसिद्धार्थपार्थिवप्रथितप्रथिमगोत्रगगनगगनरत्नश्रीवर्द्धमानजिननाय-- काननेन्दुशीतरोचिस्संस्रुतसुधासर्वसर्वस्वमास्वादितवद्भिस्तत्रभवद्धिः साम्प्रतिकसङ्क्षिप्तरुचिशिष्यसन्दोहमागमरहस्यमवगमयितुकामैः श्रीमद्बृहत्तपागच्छगगनाभोगमण्डनमहोदयिमुनिमण्डलीमण्डनीभूतैर्युगोत्तमाचार्यपुरन्दरसुन्दर श्रीमद्देवसुन्दरसूरिपट्टपूर्वाचलचित्रभानुसङ्काशश्रीमत्कुलमण्डनसूरिभिर्विवाहप्रज्ञप्तिसूत्रप्रज्ञापनोपाङ्गाद्यागमतस्सारं समुद्धृत्य त्रिभुवनभवनाप्रतिमदीपकश्रीमज्जिननायकनुतिसन्दर्भगर्भितं सूक्ष्मविचारसारं निर्मायनिर्मिति निरमायितरामेतत्कायस्थितिसमाख्यं प्रकरणरत्नम् ।
__ अस्मिन्प्रकरणे प्रकरणकारैः पूर्वाभिरेकादशगाथाभिरव्यवहारिकानादिनिगोदजीवराशितस्सभारभ्य सूक्ष्मबादरपर्याप्तापर्याप्तैकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसञ्ज्यसज्ञिपञ्चेन्द्रियतिर्यग्मनुष्यदेवनारकाणां स्त्रीपुरुषनपुंसकवेदानां च समाश्रित्यैष्वेषु जीवस्थानकेष्वहं भ्रान्त इति व्यपदेशेन पृथक्पृथक् कायस्थितिस्वरूपमुद्घटितम् । त्रयोदशगाथातस्त्रयोविंशतितमगाथापर्यन्तं प्रत्येकजीवानां पृथक् पृथग् भवसंवेधस्वरूपं सङ्कलितम् । चतुर्विंशतितमगाथायां तु कायस्थितिभवसंवेधभ्रमणोद्विग्नमानसैः कायस्थितिस्तवात्मकं प्रकरणमुपसंजिहीर्षुभिराचार्यैः श्रीमज्जिनवरेन्द्रपार्श्वतः प्रार्थितमनश्वरकल्याणपदं परमपदम् । इत्यादयो विषयाः सझेपरूपेण प्रतिपादिताः सन्ति ।
एते च सूरिशिरोमणयः कदा कतमं महीमण्डलं मण्डयामासुः ? इति जिज्ञासायां जातायाम् - नानाविधानेकग्रन्थग्रथनपटुतरप्रतिभ