________________
૧૫૬
श्रीविचारपञ्चाशिका आहारकस्य विषयो विदेहाः ३ । तैजसकार्मणयोः सर्वलोको विषयः, केवलिसमुद्धातावस्थायां सर्वलोकव्यापकत्वात् ४,५ । द्वारम् ४ ।।
अथ प्रयोजनमाहओरोलियस्स कज्जं, केवलधम्माइयं भणियं ॥९॥ थुलसुहुमं च रूवं, एगअणेगाइ कज्जयं कहियं । वेडेव्वियस्स आहारगस्स संदेहविच्छेयं ॥१०॥ तेजससरीरकज्जं, आहारपयं सुए समक्खायं । सावाणुग्गहणं पुण, कर्मणस्स भवंतरे गइयं ५ ॥११॥
अवचूरिः - औदारिकस्य कार्य प्रयोजनं केवलज्ञानधर्मसुखदुःखावाप्त्यादि १॥९॥ वैक्रियस्यैकानेकादिस्थूलसूक्ष्मरूपं कार्यकं कथितम् २ । आहारकस्य सूक्ष्मार्थविषयसंशयच्छेदादिप्रयोजनम् ३ ॥ १० ॥ तैजसस्याहारपाकः शापानुग्रहश्च प्रयोजनभेदः ४ । कार्मणस्य भवान्तरे गतिः ५ । द्वारम् ५ ॥ ११ ॥
अथ प्रमाणमाहओरालियं सरीरं, जोयणदससयपमाणओ अहियं । वेडेव्वियं च गुरुअं, जोयणलक्खं समहियं वा ॥१२॥ आहारगं सरीरं, हत्थपमाणं सुए समक्खायं । तेयसकमणमाणं, लोयपमाणं सया भणियं ६ ॥१३॥
अवचूरिः - औदारिकं शरीरमुत्कर्षतो योजनसहस्रं सातिरेकम् १ वैक्रियमुत्कर्षतः सातिरेकं योजनलक्षम्, 'वा'पादपूरणे २ ।। १२ ।। आहारकं
*सावणुग्गहणं' इत्यपि पाठो दृश्यते । 'भवंतरे कम्मणस्स गई' इति पाठः स्यात्, अन्यथा मात्रागणविरोध आपद्यते। A. वैक्रियस्य तिरश्चां मध्ये बादरपर्याप्तवायुकायजलचर चतुष्पदोरःपरिसर्पभुजपरिसर्पखचरान्मनुष्यांश्च गर्भव्युत्क्रान्तिकान् सङ्ख्येयवर्षायुषो मुक्त्वा शेषाणां प्रतिषेधः, भवस्वभावतया तेषां वैक्रियलब्ध्यसम्भवात् । इति प्रज्ञापनैकविंशे पदे।