________________
૧૫૪
श्रीविचारपञ्चाशिका बायरपुग्गलबद्धं उरालिय, उयारमागमे भणियं । सुहुमसुहुमेण तत्तो, पुग्गलबंधेण भणियाणि १॥३॥
अवचूरिः - गाथा सुगमा। नवरं 'नवहा' इति कारण १ प्रदेशसङ्ख्या २ स्वामि ३ विषय ४ प्रयोजन ५ प्रमाणा ६ ऽवगाहना ७ स्थित्य८ ऽल्पबहुत्व ९ मिति ॥ २॥ बादरपुद्गलैः स्थूलपुद्गलैर्बद्धमुपचितमौदारिकं भवति, किंविशिष्टम् ? उदारं प्रधानम्, यदुक्तमावश्यके-'गणहरआहारअणुत्तरा य जाव वणचक्किवासुबला । मंडलिया जा हीणा, छट्ठाणगया भवे सेसा ॥५७० ॥' (आवश्यकनियुक्तिः) जिनरूपाद् गणधररूपमनन्तगुणहीनम् । एवं गणधररूपादनन्तगुणहीनमाहारकम् । तस्मादनन्तगुणहीनमनुत्तरदेवरूपम् । ग्रैवेयकाच्युतारणप्राणतानतसहस्रारशुक्रलान्तकब्रह्ममाहेन्द्रसनत्कुमारेशानसौधर्मभवनपतिज्योतिषिरूपादनन्तगुणहीनं व्यन्तररूपम् । तस्माच्चक्रिरूपमनन्तगुणहीनम् । तस्माद्वासुदेवरूपमनन्तगुणहीनम् । तस्माद्रामरूपमनन्तगुणहीनम् । तस्मान्मण्डलिकरूप. मनन्तगुणहीनम् । शेषनृपा लोकाश्च षट्स्थानगताः । यथा-अनन्तभागहीनाः १, असङ्ख्यभागहीनाः २, सङ्ख्यभागहीनाः ३, सङ्ख्यगुणहीनाः ४, असङ्ख्यगुणहीनाः ५, अनन्तगुणहीनाः ६ इति । तत औदारिकात्सूक्ष्मसूक्ष्मेण पुद्गलबन्धेन भणितानि । यथौदारिकात्सूक्ष्मपुद्गलैर्वैक्रियं बद्धम्, तस्मात्सूक्ष्मैराहारकं बद्धम्, तस्मात्सूक्ष्मैस्तैजसं बद्धम्, तस्मात्सूक्ष्मैः कार्मणं बद्धमिति । द्वारम् १ ॥ ३ ॥ अथ प्रदेशसङ्ख्यामाह
ओरालिए अणंता, तत्तो दोसुं असंखगुणियाओ। तत्तो दोसु अणंता, पएससंखा सुए भणिया २ ॥४॥
अवचूरिः - औदारिकेऽनन्ताः प्रदेशा भवन्ति, ततस्तस्मात् द्वयोरसङ्ख्यातगुणा भवन्ति । अयमाशयः-सर्वस्तोका औदारिके प्रदेशाः, तस्माद्वैक्रियेऽसङ्ख्यातगुणाः, तस्मादाहारकेऽसङ्ख्यातगुणाः, ततो