________________
श्रीविचारपञ्चाशिका
૧૫૩
श्रीमद्विजयविमलगणिविरचिता ॥श्रीविचारपञ्चाशिका ॥
॥स्वोपज्ञावचूरिसहिता ॥ वीरपयकयं नमिउं, देवासुरनरबिरेफसेविअयं । जिणसमयसमुद्दाओ, वियारपंचसियं वुच्छं ॥१॥
अवचूरिः - वीरपदकजं श्रीमहावीरपादकमलं नत्वा प्रणम्य, किम्भूतम् ? देवासुरनरद्विरेफसेवितम्। विचारपञ्चाशिकां वक्ष्ये कथयिष्यामि श्रुतसमुद्रादिति ॥१॥
अत्र विचारनवकं कथयिष्यामीति । तथा-शरीरः १, कियत्कालं गर्भ स्थित्वा नरके स्वर्गे च याति ? तदागतो वा कियत्कालं जीवत्येव ? २, अपुद्गली पुद्गली चेति ३, सम्मूच्छिमनराणां गत्यागती ४, पर्याप्तिरिति ५, जीवाद्यल्पबहुत्वं ६, प्रदेशाप्रदेशपुद्गलाः ७, कडजुम्मादिः ८, पृथिव्यादिपरिमाणम् ९ । तत्र प्रथमं शरीरस्वरूपमाह
ओरालिय वेउव्विय, आहारगतेयकम्मुणं भणियं । एयाण सरीराणं, नवहा भेयं भणिस्सामि ॥२॥
- शरीरशब्दस्य पुनपुंसकत्वं 'कासारकेसरकरीरशरीरजीर' इति पठितं श्रीमद्धेमाचार्यैलिङ्गानुशासने। A'कम्मणं' इत्यपि ।