SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ૧૧૪ श्रीकालसप्ततिकाप्रकरणम् पंजथूलकुतणुतणुसम, असंखदलकेसहर सुहुमथूले। अद्धद्धारे खित्ते, पएस वाससय-समय-समया ॥४॥ अस्संख संखवासा, असंखुसप्पिणि कमा सुहुममाणं । थूलाण संखवासा, संखसमयुसप्पिणि असंखा ॥५॥ टि०पर्याप्तबादरपृथ्वीकायिकजघन्यतनुसमाऽसङ्ख्यदलानां केशानां च वर्षशते वर्षशतेऽतिक्रान्तेऽपहरणे क्रमेण सूक्ष्मं बादरं चाद्धापल्योपमम् । एवं प्रतिसमयं तदपहारे उद्धारपल्योपममपि । प्रतिसमयक्षेत्रसमप्रदेशापहरणे क्षेत्रपल्योपमम्। अयमर्थः - वर्षशते वर्षशतेऽतीते एकैकवालाग्रासङ्ख्येयतमखण्डापहरणे सूक्ष्ममद्धापल्योपमम् । तत्र निर्लेपनाकालोऽसङ्ख्यातवर्षाणि । तथा तेषां वालग्राऽसङ्ख्येयतमखण्डानां प्रतिसमयापहरणे सूक्ष्मोद्धारपल्योपमम् । तत्र निर्लेपनाकालः सङ्ख्यातवर्षाणि । केशदलस्पष्टास्पष्टप्रदेशानां प्रतिसमयमपहारे सूक्ष्म क्षेत्रपल्योपमम् । तत्र निर्लेपनाकालोऽसङ्ख्योत्सपिण्यः । क्रमेण सूक्ष्ममानम् । अथ स्थूलाद्धादिमानमाहवर्षशते वर्षशते केशापहारे बादराद्धा। तत्र निर्लेपनाकालः सङ्ख्यातवर्षाणि । प्रतिसमयं केशापहारे बादरोद्धारपल्योपमम् । तत्र निर्लेपनाकाल: सङ्ख्यातसमयाः । केशस्पृष्टप्रदेशानां प्रतिसमयापहारे बादरक्षेत्रपल्योपमम् । तत्र निर्लेपनाकालोऽसङ्ख्योत्सर्पिण्यः ॥४॥ ॥५॥ कालउगाइ अद्धा, दीवादुद्धारि खित्त पुढवाई। सुहुमेण मिणसु दसकोडिपलिएहि अयरं तु ॥६॥ १. बादरपर्याप्तपृथिवीकायिकजघन्यतनुसममसङ्ख्यखण्डं ज्ञेयम्। देवकुर्वादियुगलिनां मुण्डिते शिरसि, एकेनाहा यावन्माना वालाग्रकोटय उत्तिष्ठन्ति, ता एकाहिक्यः, अग्रं सूक्ष्मत्वख्यापनार्थम् । एवं व्याहिक्यो यावत्सप्तरात्रप्ररूढाः सप्तरात्रिका इति । तावन्मात्रैरखण्डकेशैर्बादराधिकारे पल्यो भृतः क्रियते । सूक्ष्माधिकारे तावन्मात्रमेकैकलोममसङ्ख्येयखण्डं कृत्वा भ्रियते, तानि खण्डानि बादरपर्याप्तपृथ्वीकायिकशरीरतुल्यानि अदृश्यानीति भावः । बादरपल्योपमस्य प्ररूप णामात्रं, न क्वाप्युपयोगीति ज्ञेयम् । २. कालोऽवसर्पिण्यादिरूपो, देवादीनामायूंषि, एतत्पदद्वयं पूर्वस्य योज्यम्।
SR No.023388
Book TitlePadarth Prakash Part 15
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages262
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy