________________
श्रीकालसप्ततिकाप्रकरणम्
૧૧૩
श्रीतपागच्छनायक-श्रीधर्मघोषसूरिपादप्रणीतम् ॥श्रीकालसप्ततिकाप्रकरणम् ॥
॥ सङ्क्षिप्तटिप्पणीसहितम् ॥ देविंदणयं विज्जा-णंदमयं धम्मकित्तिकुलभवणं । नमिऊण जिणं वुच्छं, कालसरूवं जहासुत्तं ॥१॥ सुहुमद्धायरदसकोडिकोडि, छअराऽवसप्पिणुसप्पिणी । ता दुन्नि कालचक्कं, वीसायरकोडिकोडीओ ॥२॥ मुंडियइगाईसगदिणकुरुनर-केसचिअमनिलजलगणिणो। अविसयमुसेहजोयण-पिहुच्च पल्लमिह पलिओमं ॥३॥ टि० देवेन्द्रनतम्, विद्यानन्दमयम्, धर्मकीर्तिकुलभवनं जिनं नत्वा कालस्वरूपं यथासूत्रं वक्ष्यामि ॥ १॥ सूक्ष्माऽद्धातरदशकोटाकोटीभिः षडराः स्युः, षडरैश्चावसर्पिण्युत्सर्पिणी च, ते द्वे कालचक्रं विंशतिसागरकोटाकोटीमितम् ॥ २ ॥ मुण्डितैकादिसप्तदिनप्ररूढकुरुक्षेत्रनरकेशचितमनिलजलाग्नीनामविषयं विनाशयितुमशक्यम् । उत्सेधाङ्गुलनिष्पन्नयोजनप्रमाणपृथूच्चं पल्यं पल्योपमं ब्रुवते वृद्धा इति गम्यम् ॥ ३ ॥