________________
श्रीलोकनालिद्वात्रिंशिका
૧૮૩
(१३५७)तमहायनेऽलङ्कृतवान् इति गुर्वावलीपट्टावलीभ्यामवगम्यते । अतो द्व्युत्तरत्रयोदशशत (१३०२) तमवर्षतोऽनन्तरं सप्तविंशत्यधिकत्रयोदशशत(१३२७)तमवर्षतश्चार्वाक् मध्यवर्तिनि समये प्रकरणमिदं रचितमित्यनुमीयते, आचार्यपदप्रतिष्ठाप्राप्तस्य श्रीधर्मघोषसूरिरिति नाम्नोऽत्राप्रदर्शनात् । तैरेव वाचंयमचूडामणिभिः श्रीमज्जिनागमरत्नाकरादुद्धृत्यानेकानि प्रकरणरत्नानि त्रिभुवनाधीशजिनेश्वरस्तुतिगर्भितानि गुम्फितानि वरिवर्त्तन्ते तेष्वन्यतममेतच्छ्रीलोकनालिकाद्वात्रिंशिकाभिधानं प्रकरणम् । अस्य चैकं पुस्तकं गुरुवर्यप्रवर्त्तकश्रीमत्कान्तिविजयपादानां पुस्तकालयत उपलब्धम्, अपरञ्च मुनिवर्य श्रीमोहनलालमुनिपूज्यानां ज्ञानमन्दिरात्सम्प्राप्तम्, तृतीयं पुनः श्रीयुतपन्न्यास श्रीमदानन्दसागरमुनिवराणां सकाशतः समासादितम् । अत: पुस्तकत्रयप्राप्त्याऽतीव शोधनकर्मणि साहाय्यं लभमानोऽमीषां महाशयानामुपकृतिं मन्ये । एतत्पुस्तकत्रितयीनिरीक्षणेन मन्दमतिना मया यथामति संशोधितम्, अत्र च यत्र मतिमान्द्येन क्वचनाशुद्धिः कृता जाता वा भवेत्तत्र करुणावरुणालयैः संशोधनीयं धीधनैरित्यभ्यर्थयते— सविनयरचिताञ्जलिः प्रवर्त्तकपादपद्मषट्पदः चतुरविजयो मुनिः (सुरत)