________________
૧૮૨
श्रीलोकनालिद्वात्रिंशिका
प्रकाशनम्, मध्यलोकात्सौधर्मादीनामुच्चत्वनियमनम्, सम्यक्त्वादिसहितप्राणिविशेषाणां लोकस्पर्शनाप्रकारः, ऊर्ध्वाधोलोकयोः सूचीप्रतरघनरज्जूनां पृथक् पृथक् सङ्ख्याप्रकाशनम्, घनप्रतरसूचीरज्जव: कतिखण्डुकैर्भवन्तीति तत्सङ्ख्यासम्पादनम्, संवर्गितलोकस्य घनसूचीप्रतररज्जुखण्डुकानां सङ्ख्यास्वरूपप्रतिपादनम्, संवर्तितलोक स्वरूपसम्पादनम्, तस्यैव लोकस्य घनरज्जवादिसङ्ख्यासंकलनम्, प्रकरणपूर्णाहुतौ स्वनामगर्भितोपदेशसूचनम् इत्येते विषया: प्रकरण - कर्तृभिः प्रतिपादिताः सन्ति ।
इदं श्रीलोकनालिकाभिधानं प्रकरणं केन कदा प्रणीतमिति जिज्ञासायां प्रवर्त्तमानायाम्-“सुयधम्मकित्तियं" इति श्लिष्टपदोल्लेखेन प्रकरणकर्तृत्वेनात्मनो धर्मकीर्त्तिरिति नाम प्रकटीकृतम् । अतो वाचंयमो पाध्यायपदान्यतरावस्थास्थैरेभिरेषा द्वात्रिंशिका गुम्फितेति सम्भाव्यते । एषामेव गच्छनायकावस्थायां श्रीधर्मघोषसूरिरिति नामासीत् । तत्तु बृहत्तपोगच्छगगनाङ्गणगभस्तिमालिभिर्भीषणभवारण्यभ्रमणोद्विग्नचेतोविचक्षणाचरितचारुचारित्राचरणचञ्चारित्रिचक्रचञ्चरीकाञ्चितचरणकमलैः
श्रीमन्मुनिसुन्दरसूरिपादैः स्वप्रणीतपट्टावल्यां स्फुटतया प्रकटितम् । अनेनास्या द्वात्रिंशिकायाः प्रणेतारो नवीनकर्मग्रन्थाद्यनेकग्रन्थग्रथनप्राप्तगरिष्ठप्रतिष्टश्रीमत्तपोगणविशालनभस्तलेन्दु श्रीमद्देवेन्द्रसूरिपट्टपुरन्दराशाशैलहेलयः श्रीधर्मघोषसूरिपादा एवेति निश्चीयते ।
अतः स श्रीधर्मकीर्त्तिरेवायं श्रीधर्मघोषाचार्यो यो विक्रमाकयद्व्युत्तरत्रयोदशशत (१३०२) तमवर्षानन्तरं दीक्षां प्रतिपन्नवान्; विक्रमार्कीयत्रयोविंशत्यधिकत्रयोदशशत (१३२३) तमे वर्ष उपाध्यायपदम्, विक्रमार्कीयाष्टाविंशत्यधिकत्रयोदशशत (१३२८) तमे च वर्षे सूरिपदमभूषयत्, स्वर्गं च विक्रमार्कीयसप्तपञ्चाशदधिकत्रयोदशशत