________________
श्रीलोकनालिद्वात्रिंशिका
॥ अर्हम् ॥
|| प्रस्तावना ॥
इह ह्यसारापारसंसारपारावारमध्यवर्त्तिनिःशेषप्राणिभवभ्रमणोत्पन्नातिदारुणनरकनिगोदवेदनानिबन्धनिबन्धनभूतमोहमहाराजसुभटाग्रणी
रागाद्यन्तरङ्गारिवर्गसमूलोन्मूलनासादिताखिलकुवलयाद्भुतकेवलज्ञाना
लकरालज्वालापटलप्लुष्टातिकठोरघनघातिकर्ममलप्रोद्भुतातिनिर्मलसुवर्ण
मललोचननिभालिताशेषपर्यायोपेतवस्तुविसरेण
प्रसर्पच्छुक्लध्यानान
वर्णकायकान्तिप्राग्भारतिरस्कृततिग्मदीधितिना श्रीसिद्धार्थपार्थिवविशाल
कुलनभस्तलनिशीथिनीनाथेन श्रीवर्द्धमानेन श्रीवर्द्धमानजिनचन्द्रेण सजलजलदगम्भीरनिनादानुकारिणा निनादेन देवासुरमनुजपर्षत्प्रत्यक्षं नयनिक्षेपोत्सर्गापवादादिविचारगहनः सिद्धान्तः प्ररूपितः । परं मन्दमतीनामागमाम्भोधिमध्यमवाप्तकामानां भव्यसत्त्वानां सङ्क्षेपतो लोकस्व
रूपावगमाय
૧૮૧
सिद्धान्तशैवलिनीवल्लभमवगाह्य
करुणारसिकचेतोभिः
प्रकरणप्रणेतृभिर्लोकनालिद्वात्रिंशिकाभिधानं प्रकरणं प्रणीतम् ।
सा च लोकाकृतिः किं स्वरूपा ? कया रित्या च निष्पद्यते ? तत्स्वरूपदिदर्शयिषयाऽस्मिन् प्रकरणे प्रथमं सामान्यतो लोकाकृतिनिरूपणम्, लोकोच्छ्रयप्रमाणम्, तस्यैवादिमध्यावसानेषु विस्तारवर्णनम्, त्रसनाडीस्वरूपोद्भावनम् एकस्यां रज्जौ खण्डुकसङ्ख्याशंसनम्, ऊर्ध्वलोकोपरितलादारभ्याधोलोकसप्तमनरकपर्यन्तेषु देवलोकादिप्रत्येकस्थानविशेषेषु खण्डुकानां पृथक् पृथक् सङ्ख्याप्रकटनम् ऊर्ध्वाधोलोकयोः सर्वखण्डुकानां सङ्ख्याप्रदर्शनम्, अधोलोके सप्तनरकपृथिवीपृथुत्वादिप्रमाणम्, ऊर्ध्वाधस्तिर्यग्लोकानां पृथक्पृथगुच्चत्वनिर्णयः, त्रिषु लोकेषु पृथक्पृथग्देवनरतिर्यगसुरनारकजीवादिस्थाननिश्चयः, प्रत्येकनरकपृथिव्यो देवलोकाश्चोच्चत्वेन पृथक् पृथक् कतिखण्डुकेंषु सन्तीति तत्स्वरूप