________________
१८४
श्रीलोकनालिद्वात्रिंशिका
श्रीमत्तपागच्छनभोनभोमणिश्रीधर्मघोषसूरिपादप्रणीता ॥ श्रीलोकनालिद्वात्रिंशिका ॥
॥ अवचूरिभूषिता ॥ जिणदंसणं विणा जं, लोअं पूरंत जम्ममरणेहिं । भमइ जिओऽणंतभवे, तस्स सरूवं किमवि वुच्छं ॥१॥ ___ अवचूरिः - जिनदर्शनं विना यं लोकं चतुर्दशरज्ज्वात्मकं जन्ममरणैः पूरयञ्जीवोऽनन्तान् भवान् भ्रमति तस्य लोकस्य स्वरूपं किमपि वक्ष्ये ॥ १ ॥
प्रथमं लोकस्य संस्थानमाहवइसाहठाणठिअपय-कडित्थकरजुगनरागिई लोओ। उप्पत्तिनासधुवगुण-धम्माइछदव्वपडिपुण्णो ॥ २ ॥
अवचूरिः - वैशाखस्थानवत्स्थितपदकटिस्थकरयुग्मनराकृतिर्लोकः स्यादित्यध्याहारः । कथम्भूतो लोकः ? उत्पत्तिनाशध्रुवरूपा गुणा येषां ते, उत्पत्तिनाशध्रुवगुणाश्च ते धर्माधर्माकाशपुद्गलजीवास्तिकायकालाश्च, तैः षड्द्रव्यैः परिपूर्णो भृतः ॥ २ ॥