________________
૧૫૧
श्रीसिद्धदण्डिकास्तवः
टि० एवं व्यादिविषमोत्तराः सिद्धदण्डिका असङ्ख्येयास्तावद्वाच्या यावदजितजिनपिता जितशत्रुरुत्पन्नः । नवरं पाश्चात्यायां दण्डिकायां यदन्त्य मङ्कस्थानं तदुत्तरस्यामुत्तरस्यामाद्यं ज्ञेयम् । तथाद्यायां दण्डिकायामादिममङ्कस्थानं सिद्धौ, द्वितीयस्यां सर्वार्थे, तृतीयस्यां सिद्धौ, चतुर्थ्यां सर्वार्थे । एवमसङ्ख्येयास्वपि दण्डिकास्वाद्यान्यङ्कस्थानानि क्रमेण सिद्धौ सर्वार्थे च ज्ञेयानि । एतदेव दिङ्मावतो विभाव्यते-तत्राद्यायामन्त्यमङ्कस्थानं २९ । तत: २९ वारानेकोनत्रिंशदूर्वाधः क्रमेण स्थाप्यते । तत्राद्येऽङ्कस्थाने नास्ति प्रक्षेपः । द्वितीयादिषु चाङ्केषु "दुग पणग" इत्यादयः क्रमेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते । क्षिप्तेषु सत्सु यद्यत्क्रमेण भवति, तावन्तः क्रमेण सिद्धौ सर्वार्थे चेत्येवं ज्ञेयाः । तद्यथा-सर्वार्थसिद्धौ २९, सिद्धौ ३१, ततः सर्वार्थसिद्धौ ३४, सिद्धौ ३८, सर्वार्थे ४२, सिद्धौ ४६, सर्वार्थे ५१, सिद्धौ ३५, सर्वार्थे ३७, सिद्धौ ४१, सर्वार्थे ४३, सिद्धौ ५७, सर्वार्थे ५५, सिद्धौ ५४, सर्वार्थे ४०, सिद्धौ ५२, सर्वार्थे ७६, सिद्धौ ९९, सर्वार्थे १०६, सिद्धौ ३०, सर्वार्थे ३१, सिद्धौ ११६, सर्वार्थे १००, सिद्धौ ९१, सर्वार्थे ९८, सिद्धौ ५३, सर्वार्थे ७५, सिद्धौ १२९, सर्वार्थे ५५ ।
द्वितीयविषमोत्तरसिद्धदण्डिकास्थापना सर्वार्थगताः |२९३४४२५१३७/४३ ५५ ४०७६/१०६/३१ / सिद्धिगताः |३१| ३८ ४६ ३५ ४१ ५७ ५४ ५२ ९९ ३० ११६
१००/९८ | ७५ ५५
| ९१ | ५३ /१२९/० अस्यामन्त्यमङ्कस्थानं ५५ । ततस्तृतीयस्यामिदमेवाद्यमङ्कस्थानम् । ततः ५५ एकोनत्रिंशद्वारान् स्थाप्यते । ततः प्रथमेऽङ्कस्थाने नास्ति क्षेपो द्वितीयादिषु १. अस्यां स्थापनायां बहुषु सयन्त्रमूलपुस्तकेषु सिद्धिगतानामुपरिलेखः सर्वार्थगतानां चाधोलेख उपलभ्यते, परं सट्टिप्पणीकपुस्तकयन्त्रे तव्यत्ययदर्शनात्, टिप्पणिकायां पुनः सर्वार्थसिद्धौ २९ इत्यादिक्रमेण लिखितत्वादन्यसटिप्पणपुस्तकस्यानुपलम्भाच्च तथैवोपन्यस्तम् ।