________________
श्री क्षुल्लकभवावलिप्रकरणम्
૧૩૩
अवचूरि: अथवा प्रकारान्तरेण मुहूर्त्तावलिका आनीयन्ते । कथम् ? इति चेत्, तथाहि - मुहूर्त्तक्षुल्लकभवा: (६५,५३६) एकक्षुल्लकभवावलिकाभिः (२५६) मिताभिर्गुणिताः समयोक्ताः सिद्धान्तोदिताः (१,६७,७७,२१६) मिता आवलिकाः समायान्ति ॥ २० ॥
—
उक्तार्थसङ्ग्रहमाह
एगा कोडी सत्तसट्ठिलक्ख, सत्तहुत्तरी सहस्सा य । दो अ सया सोलहिया, आवलियाणं मुहुत्तंमि ॥ २१ ॥ अवचूरि: - उक्तार्था ॥ २१ ॥
दिनावलिकाप्रमाणमाह
ताओ पुण तीसगुणा, पन्नाकोडी अ लक्ख तित्तीसा । सोलसहस्सा चउसय, असीइ अहिआ अहोरत्ते ॥ २२ ॥
अवचूरि : ता मुहूर्त्तावलिका: (१,६७,७७, २१६) मितात्रिशद्गुणिता: (५०,३३,१६,४८०) मिता दिनावलिका जाताः ॥ २२ ॥
स्तोकादिषु निजनिजावलिकानयनाय युक्तिविशेषमाहअहवा जह ऊसासे, अंसेहिँ समं हवंति खुड्डागा । दोसयछप्पन्नेहिं, गुणिया हरिआ य आवलिया ॥ २३ ॥ तह थोवाइसु नेया, नियनियखुड्डागा तहेव सेसंसा । एगभवावलिगुणिया, हरियावि य नियनियावलिया ॥ २४ ॥
अवचूरि : - अथवा एकोच्छ्वासभवा: (१७) मिता: (२५६) गुणा: (४,३५२) तदंशाश्च (१,३९५) मिता: (२५६) गुणाः कृत्वा [ स्तोकावलिका] (उच्छ्वासावलिका) आनीतास्तां युक्तिमुक्त्वा प्रकारान्तरेणाहयथोच्छ्वासभवा अंशाश्च (२५६) गुणाः कृता हृताश्चोच्छ्वासावलिकाः प्रतीताः, एवं स्तोकादिनिजनिजभवाः सप्तसप्तसप्तसप्ततिगुणाः (२५६