SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ श्री क्षुल्लकभवावलिप्रकरणम् स्तोकावलिकाः सप्तगुणाः कृताः । पश्चादंशाः सप्तगुणाः कृत्वा हृत्वा च लवावलिकाः कर्त्तव्याः । कथम् ? इति चेत्, तथाहि-स्तोकावलिका: (३१,१२६) सप्तगुणाः कृता: (२,१७,८८२) मिता भवन्ति । शेषांशाः (२, ११४) मिताः सप्तगुणाः कृताः (१४,७९८) मिता भवन्ति । (३,७७३) मितैर्भागे दत्ते लब्धाः (३) आवलिकाः । पूर्वराशौ (२,१७,८८२) मिते क्षिप्ता: ( २,१७,८८५) मिता भवन्ति । शेषांशाः (३,४७९) मिता एकलवे भवन्ति ॥ १७ ॥ उक्तार्थगाथामाह ૧૩૨ दोलक्खसतरसहसा, अडसयपणसी लवस्स आवलिया । तत्थ इमे सेसंसा, चउतीससया इगुणसीई ॥ १८ ॥ अवचूरि : - उक्तार्था ॥ १८ ॥ एकमुहूर्त्तावलिकानयनायाह एगलवावलिअंसा, काऊणं सत्तहुत्तरगुणा य । पुव्वं व हरिय कुज्जा, आवलिआ इगमुहुत्तंमि ॥ १९ ॥ अवचूरि :- एकलवस्यावलिका अंशाश्च सप्तसप्ततिगुणाः क्रियन्ते । ततः पूर्ववदंशा ह्रियन्ते । ततो मुहूर्ते सकलावलिका भवन्ति । कथं स्याद् ? तथाहि-लवस्यावलिका : (२,१७,८८५) मिता: सप्तसप्ततिगुणाः क्रियन्ते, (१,६७,७७,१४५ ) मिता जाता: । शेषांशाः (३,४७९) मिता: सप्तसप्ततिगुणाः कृत्वा (३,७७३) मिताङ्केन हृते लब्धा: (७१) मिताङ्काः, पूर्वराशौ (१,६७,७७, १४५) मिते क्षिप्यन्ते, शेषांशा नैव तिष्ठन्ति । एतावता मुहूर्त्ते (१,६७,७७,२१६) मिता आवलिका : सूत्रोक्ताः सञ्जायन्ते ॥१९॥ अथवा प्रकारान्तरेण मुहूर्त्तावलिकानयनाय युक्तिमाह अहव मुहुत्तावलिआ, आणेयव्वा मुहुत्तखुड्डागा । एगभवावलिआणं, पमाणगुणिया समयभणिया ॥ २० ॥
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy