________________
૧૩૧
श्रीक्षुल्लकभवावलिप्रकरणम्
अवचूरिः - उक्तार्था ॥ १४ ॥ स्तोकावलिकानयनाय युक्तिमाहएगूसासावलिआ, सत्तगुणा विहिय तह य तस्संसा । जाया थोवावलिया, मुहुत्तऊसासअवहरिया ॥ १५ ॥
अवचूरिः - एकोच्छ्वासावलिकाः (४,४४६) रूपाः सप्तगुणा विहिताः कृताः शेषांशा अपि (२,४५८) तथा सप्तगुणाः कृताः स्तोकावलिका भवन्ति । कथम् ? इति चेत्, तथाहि-एकोच्छ्वासावलिकाः (४,४४६) रूपाः सप्तगुणाः क्रियन्ते (३१,१२२) मिता जाताः । शेषांशा अपि (२,४५८) मिताः सप्तगुणाः कृताः (१७,२०६) रूपा जाताः, (३,७७३) मितैर्हता लब्धाः (४), आवलिकानां (३१,१२२) मिते राशौ क्षिप्यन्ते (३१,१२६) मिता जाताः । शेषांशाः (२,११४) मिता अत्र तिष्ठन्ति । एतावता एकस्तोके (३१,१२६) मिता आवलिका भवन्ति । अंशाः पुनः (२,११४) मितास्सन्ति ॥ १५ ॥
उक्तार्थसङ्ग्रहगाथामाहथोवंमि उ आवलिया, इगतीससहस्सइगसयछवीसा । इगवीससया चउदस-अब्भहिया जाण सेसंसा ॥ १६ ॥ अवचूरिः - उक्तार्था । नवरं तुः पुनरर्थे ॥ १६ ॥ अथ लवावलिकामाहअह थोवस्सावलिआ, तह अंसा सगगुणा उ काऊणं । पुव्वं व हरिय नूणं, कायव्वा इगलवावलिया ॥ १७ ॥
अवचूरिः - अथानन्तरं स्तोकस्यावलिकास्तथा स्तोकस्यांशाश्च सप्तगुणाः सप्तगुणाः कृताः पूर्वमिव यथा पूर्वमुच्छ्वासावलिकाः सप्तगुणाः कृताः पश्चादंशाः सप्तगुणाः कृता हृताश्चावलिकाः कृताः, एवमत्रापि प्रथमं