________________
૧૩૦
श्रीक्षुल्लकभवावलिप्रकरणम् सम्पूर्णा । एतावतोच्छ्वासे (४,४४७) मिता आवल्यो भवन्ति । परं तेऽशा न हि सन्ति (१,३१५) मिताः । अतः कारणादुच्छ्वासे (४,४४६) मिता आवल्यो भवन्ति, शेषांशाः (२,४५८) मिताः सन्ति, विलोक्यमानांशाः (१,३१५) मिता भवन्ति । एतावता (३,७७३) मितैरंशैरावलिका भवति । कथं ज्ञायते ? इति चेदुच्यते-त्रिसप्तत्यधिकैः सप्तत्रिंशता शतैरंशैरावली भवतीति ज्ञातुं एकोच्छ्वासावल्यः (४,४४६) मुहूर्तोच्छ्वासैः (३,७७३) गुण्यन्ते, जाताः (१,६७,७४,७५८) मिताः । शेषांशाः (२,४५८) मिता मुहूर्तोंच्छासैः (३,७७३) गुणिताः (९२,७४,०३४) मिता जाताः । एषामंशानां (३,७७३) मितैर्भागे दत्ते (२,४५८) मिता आवल्यो भवन्ति । एताः (२,४५८) मिताः (१,६७,७४,७५८) मिते पूर्वराशौ क्षिप्यन्ते । जाता मुहूर्तस्य सम्पूर्णावल्यः (१,६७,७७,२१६) मिताः । अथवैकमुहूर्त्तस्यावलिकाः (१,६७,७७,२१६) मिता एकमुहूर्तोच्छ्वासैः (३,७७३) मितैर्भागे दत्ते लब्धाः (४,४४६) मिताः । शेषांशाः (२,४५८) मिताः स्थिताः । अत्रांशाः (३,७७३) मितैरुच्छ्वासैर्हतत्वात् (३,७७३) रूपा ज्ञेयाः । कोऽर्थः ? (३,७७३) मितभागैरावलिका भवति, तावद्भागान्तर्गता भागा एकोच्छ्वासे (४,४४६) मितावलिकोपरि (२,४५८) मिता ज्ञेयाः ॥ १२ ॥
अथोच्छ्वासे सर्वावलिकाप्रमाणमाहऊसासे चउचत्ता-सयछायाला तहेव सेसंसा । चउवीस (स )यडवन्ना, थोवतया सुत्ति न हि भणिया ॥१३॥
अवचूरिः - एकस्मिन्नुच्छ्वासे (४,४४६) आवलिका भवन्ति, शेषांशाः (२,४५८) मिताः स्थितास्सन्ति । सूत्रगाथायां तु स्तोक तयाल्पतया नोक्ता सेयं सूत्रगाथा ॥ १३ ॥
यदुक्तं सेयं गाथा (तामाह) तदाहइक्को य आणपाणू, चोआलीसं तहेव छायाला । आवलिअपमाणेणं, अणंतनाणीहिँ निद्दिवो ॥ १४ ॥