________________
श्रीक्षुल्लकभवावलिप्रकरणम्
૧૨૯
(९) । शेषांशा न हि तिष्ठन्ति । पूर्वराशौ (६५,५२७) मिते लब्धाङ्क(९) मितक्षेपे जाता मुहूर्त्तक्षुल्लकभवा: ( ६५, ५३६) मिताः । तेऽपि त्रिंशद्गुणाः कृताः (१९,६६,०८०) दिनक्षुल्लकभवा भवन्ति ॥ १० ॥
उक्तार्थगाथामाह
पणसट्ठिसहसपणसय- छत्तीसा इगमुहुत्तखुड्डुभवा । एगोणवीसलक्खा, छासट्ठिसहस असीइ दिने ॥ ११ ॥
अवचूरि: - उक्तार्था ॥ ११ ॥
साम्प्रतमुच्छ्वासावलिकानयनाय युक्तिमाह
ऊसासभवा दोसय-छपन्नगुणिया तहेव तस्संसा । सगतीससयतिहुत्तर भइए ऊसास - आवलिया ॥ १२ ॥
—
अवचूरि :- उच्छ्वासभवाः शतद्वयेन षट्पञ्चाशदधिकेनैकोच्छ्वासभवा: (१७) मिता गुण्यन्ते । तथैव शेषांशाः (१,३९५) मिता: (२५६) मिताङ्केन गुणिताः सन्त उच्छ्वासावलिका भवन्ति । कथम् ? इति चेदुच्यते-सप्तदश क्षुल्लकभवा: (१७) मिताः षट्पञ्चाशदधिकशतद्वयेन (२५६) गुणिता जाता: (४,३५२) मिताः । अष्टादशभवांशा अपि (१,३९५) मिता: (२५६) आवलिगुणाः कृताः (३,५७,१२०) मिता जाता: । एते त्रिसप्तत्यधिकसप्तत्रिंशता शतैः (३,७७३) भागे दत्ते लब्धाः (९४) मिताः । शेषांशाः (२, ४५८) मिताः स्थिताः । विलोक्यमानांशाः (१,३१५) मिता ज्ञेया: । अथवा एकस्मिन् क्षुल्लकभवे (२५६) मिता आवल्यो भवन्ति । ता मुहूर्त्तक्षुल्लकभवै: ( ६५, ५३६) मितैर्गुणिता एक मुहूर्त्तावलिका: (१,६७,७७,२१६) मिता भवन्ति । एकोच्छ्वासावल्यानयनार्थं मुहूर्त्तावलीनां (१,६७,७७,२१६) मितानां मुहूर्तोच्छ्वासैः (३,७७३) मितैर्भागे दत्ते लब्धाः (४,४४६ ) । शेषांशाः (२, ४५८) मितास्तिष्ठन्ति । तत्र यदि (१,३१५) मितांशा भवन्ति तदावलिका भवति
1