________________
૧ ૨૮
श्रीक्षुल्लकभवावलिप्रकरणम् अवचूरिः - सुगमा ॥ ७ ॥ अथ लवस्य क्षुल्लकभवानाहथोवस्स उ खुड्डागा, अंसेहि समं तु सगगुणा विहिया । पुव्विं व तओ हरिया, एगलवे हुंति खुड्डुभवा ॥ ८ ॥
अवचूरिः - स्तोकस्य क्षुल्लकभवा अंशैः सह सप्तगुणाः कृताः पूर्वमिव हृताः, अत्र पूर्वशब्दः स्तोकविधिसूचकः । यथा स्तोके (३,७७३) मिताङ्केन हृतास्तथाऽत्रापि । कथम् ? तथाहि-स्तोके भवाः (१२१) मिताः सप्तगुणाः कृताः (८४७) मिता जाताः । (२,२१९) मिता अंशाः सप्तगुणाः कृता जाताः (१५,५३३) मिताः । एते (३,७७३) मिताङ्केन हृता लब्धाः (४) । ते (८४७) राशौ क्षिप्यन्ते । एतावता लवे (८५१) भवाः, शेषांशाः (४४१) स्थिताः ॥ ८ ॥
आगताङ्कानाहअडसयमेगावन्ना, नाणीहिँ लवे खुड्डभवा दिट्ठा । अंसाणं तु पमाणं, चउसयमिगचत्तमब्भहिया ॥ ९ ॥ अवचूरिः - उक्तार्था ॥ ९ ॥ मुहूर्त्तक्षुल्लकभवानाह
अह सत्तहुत्तरगुणा, विहिया इगलवखुड्डभवअंसा । हरिया पुव्वं व तओ, हुंति इगमुहुत्तखुड्डागा ॥ १० ॥
अवचूरिः - अथ लवक्षुल्लकभवाः सप्तसप्ततिगुणाः कृता अंशा अपि सप्तसप्ततिगुणाः कृता हृताश्चैकमुहूर्त्तक्षुल्लकभवा भवन्ति । कथम् ? इति चेत्, तथाहि-एकलवभवाः (८५१) मिताः सप्तसप्ततिगुणाः कृता जाताः (६५,५२७) मिताः । शेषांशाः (४४१) मिताः सप्तसप्ततिगुणाः कृताः (३३,९५७) मिता जाताः । अथ (३,७७३) मितांशेन हृता लब्धाः