________________
श्रीक्षुल्लकभवावलिप्रकरणम्
૧ ૨૫
श्रीधर्मशेखरगणिविरचितम् ॥ श्रीक्षुल्लकभवावलिप्रकरणम् ॥
॥ अवचूर्या समलङ्कृतम् ॥ वंदित्ता सिरिवीरं, देविंदनरिंदमहियकमकमलं । खुड्डभवाण सरूवं, आवलियाणं च वुच्छामि ॥ १ ॥
अवचूरिः - गाथा सुगमा । नवरं क्षुल्लकभवानामावलिकानां च स्वरूपं विचारणारूपं कियन्तो भवाः? कियन्त्यो वा आवलिकाः? उच्छ्वासादौ भवन्ति, कथं वा? सम्भवन्तीति ॥१॥
(तत्र) यदुक्तमुच्छ्वासादौ भवावलिकास्वरूपं वक्ष्ये तत्प्रथममुच्छ्वासादिस्वरूपमाह
गयमुक्कसत्तसासा थोवो, सो सगगुणो लवो भणिओ । सो सत्तहुत्तरगुणो मुहुत्त, सो तीसगुण दिवसो ॥ २ ॥
अवचूरिः - गदो रोगस्तेन मुक्तः पुरुष इति गम्यते, तस्य नरस्योच्छ्वासः सप्तगुणः कृतः सन् 'थोवो 'त्ति स्तोको भवति । सप्तोच्छ्वासः स्तोकनामा काल इत्यर्थः । सोऽपि स्तोकः सप्तगुणः कृतः सन् लवः कालविशेषः । सप्तस्तोकैर्लव इत्यर्थः । सोऽपि लवः सप्तसप्ततिगुणः(णी)कृतः सन्मुहूर्तः । मुहूर्त्तस्त्रिंशता दिवसो भवति ॥२।।