SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ૧ ૨૪ श्रीक्षुल्लकभवावलिप्रकरणम् ॥ प्रस्तावना ॥ इह हि जगज्जन्तुजातजनितामन्दानन्दसन्दोहेन श्रीसिद्धार्थपार्थिवविशालकुलनभस्तलचन्द्रेण भगवता श्रीमद्वर्द्धमानजिनचन्द्रेण भविक जनोपकाराय द्वादशाङ्गिरूपागमो देवासुरमनुजपर्षदि प्ररूपितः । परं सङ्क्षिप्तरुचीनां भव्यप्राणिनां दुरवगाह्यतया तेषामुपकाराय करुणार्द्रहृदयाः प्रकरणकाराः क्षुल्लकभवावलिकाभिधानमिदं प्रकरणं रचितवन्तः । प्रकरणकारैरस्मिन् प्रकरणे एकोच्छ्वास-स्तोक-लव-मुहूर्त्त-दिनेषु प्रत्येक क्षुल्लकभवानामावलिकानां च स्वरूपादि निरूपितम् । इदं प्रकरणं केन कदा प्रणीतमिति पर्यालोचनायां सत्याम्प्रकरणस्यास्य प्रणेतृभिः प्रकरणे क्वापि स्वाभिधानं नोपन्यस्तम् । यद्यप्येवंविधान्यनेकानि प्रकरणकानि श्रीमद्धर्मघोषसूरिभिः कृतानि "देविंद" इत्यादि सूचकं चाप्यस्ति, तथापि स्फुटाभिधानाभावान्न तदभिधातुं शक्यते । परं श्रीयुतपन्न्यास-दानविजयमुनीनां पुस्तकावसाने, मुद्रितजैनग्रन्थावल्यां चैतत्कर्तृत्वं श्रीधर्मशेखरगणिनामुपलभ्यते । अन्यच्च जैनकुमारसम्भववृत्तिकथोद्धारयोः प्रणेता श्रीधर्मशेखरगणिः स एवायं वान्य इति निर्धारयितुमत्र तेषां स्वगच्छकालाधवर्णनान्न समर्थाः । अत एव कदाऽयं निबन्धो न्यबन्धीत्यपि दुरवबोधम् । प्रकरणस्यास्यावचूर्णि: केन कदा प्रणीतेतिनिर्णयस्त्वभिधेयाभिधानाभावेन कर्तुं न पार्यते, परं हस्तलिखितपुस्तकनिरीक्षणेन सा चिरन्तनेत्यवसीयते । अस्य च पुस्तकानि गुरुवर्य-प्रवर्तकश्रीमत्कान्तिविजयपादानां श्रीयुतपन्न्यासदानविजयमुनीनां मुनिललामश्रीमोहनलालमुनीनां च ज्ञानमन्दिरादासादितानि। एतदाधारेण शोधितेऽपि यत्र वचनाशुद्धिः कृता जाता वा भवेत्तत्र करुणावरुणालयैः संशोधनीयं धीधनैरित्यभ्यर्थयते - सविनयविरचिताञ्जलिः प्रवर्तकपादपद्मषट्पदः चतुरविजयो मुनिः (सुरत)
SR No.023385
Book TitlePadarth Prakash Part 14 Kshullakbhavavali Prakaran Siddhadandika Stava Shreeyonistava Loknalidwatrinshika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages218
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy