________________
[ हैम-शब्दानुशासनस्य
४३६]
उपायाद् ह्रस्वश्च । ७ । २ । १७० |
स्वार्थे
इकण् वा स्यात् । तद्योगे च ह्रस्वः । औपयिकम् ॥ १७० ॥
मृदस्तिकः | ७ | २ | १७१ ॥
स्वार्थे
वा स्यात् । मृत्तिका, मृत् ॥ १७१ ॥ स-स्नौ प्रशस्ते | ७ | २ | १७२ |
प्रशस्तार्थात् मृदः स- स्नौ वा स्याताम् । मृत्सा, मृत्स्ना ||१७२॥
'इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघु वृत्तौ
सप्तमस्याध्यायस्य द्वितीयः
पादः समाप्तः ॥७॥२॥