________________
४२६
[हैम-शब्दानुशासनस्य कुग्योगे
डाच् स्यात् । मद्रा करोति भद्रा करोति नापितः। वपन इति किम् ?
मद्रं करोति, भद्रं करोति साधुः ॥१४४॥ अव्यक्ताऽनुकरणाद् अनेकस्वरात् कृभ्वस्तिना अनितौ दिश्च ।७।२।१४५। यस्मिन् ध्वनौ वर्णाः विशेषरूपेण नाऽभिव्यज्यन्ते सोऽव्यक्तः। तदनुकरणार्थात् अनेकस्वराद् । अनितिपरात कुम्वस्तियोगे डाच् वा स्यात्
द्विश्वास्य प्रकृतिः। पटपटा करोति भवेत् स्याद्वा।
अनेकस्वरादिति किम् ?