________________
४१६]
[हैम-शब्दानुशासनस्य रम्यम्
__ आगतो वासो वा ॥१२४॥ वोत्तरपदेऽर्धे । ७ । २ । १२५ । अपरस्य केवलस्य, दिक्पूर्वस्य च
अर्द्ध उत्तरपदे पश्चो वा स्यात् । पश्चार्धम् अपरार्धम् ।
दक्षिणपश्चाः , दक्षिणापरार्द्धः ॥ १२५॥ कृभ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे
चिः ।७।२।१२६ । कर्मार्थात् कृगा योगे, कर्याच्च भ्वस्तियोगे प्राग् अभूततद्भावे गम्ये
चिः स्यात् । . शुक्लीकरोति पटं, शुक्लीभवति, शुक्लीस्याद पट.।