________________
२६]
[ हैम-शब्दानुशासनस्य
अपत्ये
अण् स्यात् । वाशिष्ठः, वासुदेवः,
श्वाफल्कः, नाकुलः ॥ ६१॥ कन्या-त्रिवेण्याः कनीन-त्रिवणं च
। ६ । १ । ६२। आभ्यां अपत्ये अण स्याद्, यथासङ्ख्यं कनीनत्रिवणौ च आदेशौ।
कानीनः, त्रैवणः ॥ ६२॥ शुङ्गाभ्यां भारद्वाजे। ६ । १।६३ । शुङ्ग-शुङ्गाभ्यां पुंस्त्रीशब्दाभ्यां भारद्वाजे अपत्ये अण् स्यात् । शौङ्गो भारद्वाजः ॥ ६३ ॥