________________
३८६ ]
[ हैम-शब्दानुशासनस्य
तमिस्राऽर्णव- ज्योत्स्नाः । ७ । २ । ५२ ।
एते
मस्वर्थे
निपात्याः ।
तमिस्रा रात्रिः, मिस्राणि गुहामुखानि,
;
तमस्वान्, अर्णवः समुद्रः, ज्योत्स्ना चन्द्रप्रभा ॥५२॥
गुणाऽऽदिभ्यो यः । ७ । २ । ५३ ।
एभ्यो
मत्वर्थे
यः स्यात् । गुण्यो ना, डिम्यो गिरिः,
हिमवान् ॥५३॥
रूपात् प्रशस्ताऽऽहतात् । ७ । २ । ५४ ।