________________
३७४ ]
कंयः, शंयः,
कंतुः, शंतु,
कंतिः शंतिः,
कंतः, शंतः,
एभ्यो मत्वर्थे
कंवः, शंवः,
[ हैम-शब्दानुशासनस्य
कंभः, शंभः ॥ १८ ॥
बल-वात-दन्त-ललाटादूलः । ७ । २ । १९ ॥
ऊलः स्यात् ।
बलूलः, वातूलः, दन्तूलः
ललाटूलः, बलवान् ॥१९॥
प्राण्यङ्गादातो लः । ७ । २ । २० ।
प्राण्यङ्गार्थाद् आदन्तात् मत्वर्थे
लः स्यात् ।
चूडाल:, चूडावान् । प्राण्यङ्गादिति किम् ? जङ्घावान् प्रासादः ॥२०॥