________________
३२०]...............
[हैम-शब्दानुशासनस्य
आलुः स्यात् । शीतालु, उष्णालः, वृषालुः,
[तृपालुः ?] ॥९२॥ यथामुख-संमुखाद् ईनः तद् दृश्यतेऽस्मिन्
।७।१। ९३। आभ्यां तदिति स्यन्ताभ्यां, अस्मिन् इति ड्यर्थे ईनः स्यात् , स्यन्तं चेद् दृश्यते । यथामुख प्रतिबिम्बम् ,
यथामुखीन: आदर्शः, . एव संमुखीनः ॥९३॥ सर्वाऽऽदेः पथ्यङ्ग-कर्म-पत्र-पात्र-शरावं.
व्याप्नोति । ७।१।९४ । सवशब्दपूर्वेभ्यः