________________
१८२]
[हैम-शब्दानुशासनस्य अण् स्यात् । बैदः सङ्घादिः, बैंदं लक्षणम्,
एवं-गार्गः, गार्गम् , दाक्षः,-दाक्षम् ।। शाकलादकञ् च । ६ । ३ । १७३ । अस्मात् तस्य इदं अर्थे सवादौ अकञ् अण् च स्यात् । शाकलकः-शाकलः सङ्घादिः,
शाकलकम्-शाकलं लक्षणम् ॥ १७३ ।। गृहेऽग्नीधोरण धश्च । ६।३ । १७४। अग्नीधः तस्य इदं अर्थे
रण स्यात् धश्च ।
आग्नीध्रम् ॥ १७४ ॥ रथात् साऽऽदेश्च वोगे । ६।३।१७५॥ रथात् केवलात्