________________
॥ श्री वर्धमानस्वामिने नमः ॥ षष्ठाध्यायस्यप्रथमः पादः ॥ ( अथ तद्धितप्रकरणम्)
तद्धितोऽणादिः । ६ । १ । १ । वक्ष्यमाणोऽणादिः
तद्धितः स्यात् । औपगवः ॥ १॥
पौत्रादि वृद्धम् । ६ । १ । २ । परम-प्रकृतेर्यत् पौत्रादि अपत्यं,
तद् वृद्धं स्यात् ।
गार्ग्यः, पुत्रस्तु - गार्गिः ॥ २ ॥